SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् - ॥ ५२ ॥ ६ दिविषदां देवानां, जिनानां मूर्त्तेः पूजना स्थितिः स्थितिमात्रं, सादृश्यात् अर्चनशब्दाभिधानसाम्यादिति, ये कुधियः कुत्सितबुद्धयो वदन्ति भेदं तु वक्ष्यमाणं न पश्यंति ते यदि स्त्रीत्वेन स्त्रीलिंगमात्रेण निजयोः स्वकीययोर्जायांवयोः कान्ताजनन्यो रेकत्वं वदन्ति तत्तर्हि को वा को नाम वक्त्रं मुखमर्थात्तदीयं असंवृततरं अतिशयेनोद्घाटं बुधः पंडितः पिधातुमाच्छादयितुं यततां पराक्रमतां अशक्येऽर्थे पंडितस्य यत्नकरणायोगान कोऽपि यततामिति भावः । प्रतिवस्तूपमया दूरांतरेऽपि यत्किंचित्साम्येन भ्राम्यतामुपहासो व्यज्यते, तदुक्तं ' काके कार्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो, गांभीर्ये महदंतरं वचसि यो भेदः स किं कथ्यते । एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते, के काकाः सखि के च हंसशिशवो देशाय तस्मै नमः ॥ १ ॥ इति ॥ १३ ॥ भेदहेतूनेवोपदर्शयंस्तददर्शिन आक्षिपन्नाह. - रुद्धर्मव्यवसायपूर्वक तया शक्रस्तवप्रक्रिया, भावभ्राजितहृद्यपद्यरचना लोकप्रमाणैरपि ॥ ईक्षन्तेऽतिशयं न चेद्भगवतां मूर्त्त्यर्चने स्वःसदां, बालास्तत्पथि लौकिकेऽपि शपथप्रत्यायनी - या न किं ॥ १४ ॥ टीका – 'सद्धर्मे' त्यादि-सद्धर्मव्यवसाय पूर्वकत्वमेकं जिनप्रतिमार्चनस्यानुषंगिक वाप्याद्यर्चनतो भेदकं व्यवसायसभासंभविक्षयोपशमनिमित्तस्य सद्धर्मव्यवसायस्य भावत्वात्, भावानुषंगतः सम्यग्रहष्टिक्रियायाश्च क्रियांतरवद्धर्मत्वात्, व्यवसायसभा स्वोपज्ञ दुचिः लो. १३ - १४ ॥५२॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy