________________
प्रतिमा शतकम्. ॥ ५१
"
क्तः पाठो निबद्धस्तदानंदादीनां व्रतदानोत्तरमप्ययमुपनिबद्धव्यः स्याद् इति कियदज्ञस्य पुरो वक्तव्यं, अतएव किं मे पूर्व श्रेयः किं मे पश्चात् श्रेयः, किं मे पूर्वमपि पश्चादपि च हिताय भावप्रघानोऽयं निर्देशो हितत्वाय परिणाम सुंदरतायै सुखाय शर्मणे क्षमायै अयमपि भावप्रधानो निर्देशः, संगतत्वाय निःश्रेयसाय निश्चितकल्याणाय आनुगामिकतायै, एवं परंपरानुभानुबंधिसुखायं भविष्यतीति राजप्रश्नीयवृत्तौ व्याख्यातं । अत्र यदेव भावजिनवन्दने फलं तदेव जिनप्रतिमावन्दनेप्युक्तं । न चैतत् सूर्याभदेवस्य सामानिकदेववचनं न सम्यग् भविष्यतीति शंकनीयं सम्यग्दृशां देवानामप्युत्सूत्र भाषित्वासंभवात् नहि काप्यागमे किं मे पुव्विकरणिज्जमित्यादिके सम्यग्दृष्टिना पृष्ठेप्यैहिक सुखमात्र निमित्तं सग्चंदनादिकं 'हिआए सुहाए ' इत्यादिरूपेण केनापि प्रत्युत्तरविषयीकृतं दृष्टं श्रुतं वाऽपि च वन्दनाधिकारेऽपि कचि ' त्पेच्चाहिआए' इत्याद्येवोक्तं कचिच्च ' एनं ' - इह भवे वा परभवे वा आणुगामियचाए भविस्सा त्ति नोक्तपाठवैषम्यकदर्थनापि, किंच ' पच्छा कडुअ विवागा' इत्यत्र यथा पश्चात् शब्दस्य परभवविषयत्वं तथा प्रकृतेऽपीति किं न विभावयसि एवं जस्स नत्थि पुरा पच्छा मो तस्स कुओसिया इत्यत्रापि पुरा पश्चादिति वाक्यस्य त्रिकालविषयत्वं व्यक्तमिति प्रकृतेऽपि तद् योजनीयं ॥ १२ ॥
स्थितिविषयाशंकामेव समानधर्मदर्शनेन प्रपंचयत उपहसन्नाह
वाप्यादेवि पूजना दिविषदां मूर्त्तेर्जिनानां स्थितिः, सादृश्यादिति ये वदंति कुधियः पश्यंति भेदं तु न । एकत्वं यदि ते वदंति निजयोः स्त्रीत्वेन जायांबयोस्तत्को वा यततामसंवृततरं वक्त्रं पिधातुं बुधः ॥ १३ ॥ टीका–' वाप्यादेरिवे ' ति-वाप्यादेर्नदापुष्करिण्यादेखि, आदिना महेंद्रध्वजतोरणसभाशालभंजिकादिपरिग्रहः,
स्वोपज्ञ वृत्तिः
श्लो. १२
-१३
॥५१॥