________________
wwwwanmwwwwwwwww
प्रतिमा
कारित्वं न तु तत्करणप्रयोज्याधस्तनस्थानस्थितिरिति परमार्थः, इत्यलं प्रसक्तानुमसक्त्या । कश्चित्तु स्वकुललघुकरणावाप्तलघु शवकम् | जिनामा चारणश्रमणानांशक्तिमात्रेणैवेयं गतिविषयोक्तिनतुकेऽपि नंदीश्वरादौ गता गमिष्यन्ति यास्यति वान्यथा षोडशसहस्त्र॥२९॥ ३ योजनोच्छूितळवणवेलाजले गच्छतां तेषां जलजीवादिविराधनया चारित्रमंतःप्लवेतेति मुग्धवंचनकुतुहलीभुजमुत्क्षिप्याह,
स तु कृतांतकोपेनैव निहंतव्यः, चारणश्रमणानां सातिरेकाणि सप्तदशसहस्रयोजनान्यूळूमुत्पत्येव तिर्यग्गतिप्रवृत्तेःसिद्धान्तेऽभिधानात्तथा च समवायसूत्र-इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाई सत्तरसजोयणसहस्साई उटुंउप्पइत्तातओ पच्छाचारणाणं तिरियं गतीपवत्तइ ति उक्तश्चारणवन्धताधिकारः ॥८॥
_अथ देववंद्यतामधिकृत्य देवानां शरणीकरणीयतया भगवन्मूर्ति-मभिष्टौति. अर्हचैत्यमुनीन्दुनिश्रिततया शक्रासनमावधि, प्रज्ञप्तौ भगवान्जगाद चमरस्योत्पातशक्तिं ध्रुवं । जैनी मूर्तिमतो न योऽत्रजिनवजानाति जानातुक, स्तं मयं बत श्रृंगपुच्छरहितं स्पष्टं पशुपंडितः॥९॥
टीका-'अहंदि ति-अर्हन्तस्तीर्थकराः, चैत्यानि-तत्पतिमाः, मुनींदवः परमसौम्यभावभाजः साधुचंद्रास्तनिश्रिततया तनिश्राकरणेन हेतुना, भगवान् ज्ञातनंदनः, चमरस्यासुरकुमारराजस्य शक्रस्ययासनक्ष्मासनपृथ्वी सावधिर्यत्र यस्यां क्रियायां तथा चमरस्योत्पातस्य शक्तिं ध्रुवं निश्चितं जगाद, अतः अहंदनगारमध्ये चैत्यपाठात्, योऽत्र जिनशासने जैनी मूर्ति जिनवत् जिनतुल्यां
१ धंधन-इत्यपि
॥२९