SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ | तेषां न प्रतिमानतिः स्वरसतो लीलानुषंगातु सा, लब्ध्याप्तादिति कालकूटकवलोद्गारागिरः पाप्मनां । प्रतिमा ६ स्वोपत्र शतकम् हतैवं न कथं नगादिषु नतिर्व्यक्ता कथं चेह सा, चैत्यानामिति तर्ककर्कशगिरा स्यात्तन्मुखं मुद्रितं i७॥| चिः ॥२२॥ ज्ञानं चैत्यपदार्थमाह न पुनर्मूर्तिप्रभोयोंद्विषन् , वंद्यं तत्तदपूर्ववस्तुकलनादृष्टार्थसंचार्यपि । श्लो७-८ धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसौ, प्रज्ञावत्सु जडः श्रियं न लभते काको मरालेष्विव ॥८॥ टीका-तेषा' मिति-तेषां जंघाचारणविद्याचारणानां प्रतिमानतिः स्वरसतोन, स्वरस:-श्रद्धा भक्तिसंलुलितः परिणामः, तु पुनः लब्ध्याता लब्धिप्राप्ताल्लीलानुषंगात लब्धिप्राप्तलीलादिक्षया प्रवृत्तानां तत्रावर्जनीयसंनिधिकदर्शनतयेत्यर्थः, नचास्वारसिकतन्नत्या कापि क्षतिः, स्वारसिकाकृत्यकरणस्यैवदोषत्वादित्येताः पाप्मनां लुपाकदुर्गतानांगिरः कालकूटकवलोद्वारा उद्गीर्यमाणकालकूटकवला इत्यर्थः भक्षितमिथ्यात्वकालकूटानामीदृशानामेवोद्गाराणां संभवात् , तत्रोत्तरम्-' इंते' तिनिर्देशे एवं लीलाप्राप्तस्यविस्मयेन साधूनां वन्दनसम्भवे कथं नगादिषु मानुषोत्तरनंदीश्वररुचकमेरुतदारामादिविषयेन चारणानां नतिस्तत्राप्यपूर्वदर्शनजनित विस्मयेन तत्सम्भवात् , कथं चेह भरतविदेहादौ ततः प्रतिनिवृत्तानां चैत्यानां प्रतिमानां सा नतिः? इत्येवंभूता या तर्ककर्कशागीस्तया तन्मुखं पाप्मवदनं मुद्रित स्यादन या गिरा ते प्रतिवक्तुं न शक्नुयुरित्यर्थः, कर्कशपदं तत्तकस्य निविडमुद्राहेतुत्वमभिव्यक्ति, अत्र यथागोचरचर्योद्देशेनापि निर्गतेन साधुनांतरोपनताः साधवः स्वरसत एव वन्दनीया स्तथा गतिगोचरदर्शनायापि गतैश्चारणैनंदीश्वरादिप्रतिमानतिः स्वरसत एवानभ्रोपनतपीयूपदृष्टिवत्परमप्रमोदहेतुत्वादित्युक्तं भवति ॥७॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy