SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ॥ २१ ॥ साकृत्याकरणादकृत्यकरणाद्भग्नव्रतत्वं भवे, दित्येता विलसंति सन्नयसुधासारा बुधानां गिरः ॥ ६ ॥ टीका – ' प्रज्ञप्ता' विति प्रज्ञप्तौ भगवतीसूत्रे किं चारणैर्जघाचारणविद्याचारणाश्रमणैर्निर्मिता प्रतिमानतिर्न विदिता न प्रसिद्धा ? अपि तु प्रसिद्धैव, सुधर्मस्वामिना कंठरवेणोक्तस्य तस्य तरणिप्रकाशतुल्यस्य कुमतिकौशिकवा ङ्मात्रेणापह्नोतुमशक्यत्वात् ननु ! यदुक्तं तद्वयक्तमेव परं चैत्यवंदननिमित्तालोचनाभावेऽनाराधकत्वमुक्तमिति तेषां चैत्यनतिं स्वारसिकीं नाभ्युपगच्छाम इत्याशंकायामाह — तेषामिति तेषां जंघाचारणविद्याचारणानां लब्ध्युपजीवनात् तस्य प्रमादरूपत्वा तु पुनर्विकटनाभावादालोचनाभावात्, ' आलोअणा वियडणे 'ति नियुक्तिवचनाद्विकटनाशब्दस्यालोचनार्थः, अनाराधना नत्वन्यतो निमित्तात्तदाहसानाराधनाकृत्यस्य प्रमादालोचनस्याकरणात्, अकृत्यकरणं चैत्यवन्दने मिथ्यात्वकरणं, ततः तत्पुरस्कृत्यानाराधनायां तुच्यमानायां भग्नव्रतत्वं भवेत्, मिथ्यात्वसहचारिणामनंतानुबंधिनामुदयेन चारित्रस्य मूलत एवोच्छेदात्, 'मूलच्छेज्जं पुण होइ बारसण्डं कसायाणं ' इति वचनात् तच्चनालोचनामात्रेऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्पकस्य शिरस्यास्तामित्येताः सन्नयः समीचीननयः स एव मिथ्या कल्पनाविषविकार निरासकत्वात् सुधा-पीयूषं तेन सारा बुधानां सिद्धांतपारदृश्वनां गिरः वाचः ।। ६ ।। ननु चारणानां यावान् गतेर्गोचर उक्तः तावदेशगमनपरीक्षायामेव मुख्यउद्देशस्तस्यां क्रियमाणायां तत्तचैत्यानामपूर्वाणां दर्शनाद्विस्मयोद्बोधेन तन्नतिर्न तु खरसत इति तदाचरणं न शिष्टाचार इति सर्वेषां साधूनां न तद्वद्यता तद्दृष्टांतेनेति कुमतिमतमाशंक्य निषेधति ܡܘܢܘܗܘ स्वोपज्ञ चिः श्लो० ६ ॥२१॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy