SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिः श्लो०३ एवं व्यवस्थिते ब्राह्मी लिपिरिव प्रतिमा सूत्रन्यायेन वंद्येति तदपसवकारिणां मूढतामाविष्करोति । प्रतिमा शतकम् लुप्तं मोहविषेण किं किमुहतं मिथ्यात्वदंभोलिना, मग्नं किं कुनयावटे किमु मनो लीनं तु दोषाकरे। ॥११॥ प्रज्ञतौ प्रथमं नतां लिपिमपि ब्राह्मीमनालोचयन् , वन्याहत्प्रतिमा न साधुभिरिति ब्रूते यदुन्मादवान्३ टीका--लुप्तमिति-प्रज्ञप्तौ प्रथममादावेव नतां सुधर्मस्वामिना ब्राह्मी लिपिमप्यनालोचयन् धारणाबुध्ध्याऽपरिकलयन् । अहमतिमा साधुभिर्न वन्येति यदुन्मादवान्-मोहपरवशो ब्रूते तत् किं तस्य मनो मोहविषेण लुप्त-व्याकुलितं? किमु ? मिथ्यात्व दम्भोलिना-मिथ्यात्व वज्रेण हतं-चूर्णितं ? अथवा किं कुनयावटे दुर्नयकूपे मग्नं ? यद्वा 'तु' इति उत्प्रेक्षे दोषसमूहाभिन्ने दोषाकरे लीनं?, छायाश्लषेण मनश्चन्द्र विशतीति श्रुतेप॑तमित्यर्थः, अत्र 'लिम्पतीव तमोऽङ्गानी' त्यादौ लेपनादिनाव्यापनादेरिव विषककलुप्ततादिना लुम्पकमनोमूढताया अध्यवसानात् स्वरूपोत्पेक्षा, किमादिद्योतकः, संभावनमथोत्पेक्षा प्रकृतस्य समेन यदिति काव्यप्रकाश कारः, असद्धर्मसंभावने वादिद्योत्योत्मक्षति हेमचन्द्राचार्याः, अयंभाव:-' णमो बंभीए लिवीए' इति पदं यद् व्याख्याप्रज्ञप्तेरा| दावुपन्यस्तं तत्र ब्राह्मी लिपिरक्षरविन्यासः, सा यदि श्रुतज्ञानस्य नाकारस्थापना तदा तद्वंद्यत्वे साकारस्थापनाया भगवत्पतिमायाः स्पष्टमेव साधूनां वंद्यत्वं, तुल्यन्यायादिति तत्पद्वेषे प्रज्ञप्तिपद्वेष एव, यत्तु प्रतिमापद्वेषधृमांधकारितहृदयेन धर्मशगालकेन प्रलपितं ब्राह्मी लिपिरिति प्रस्थकदृष्टान्तमसिद्धनैगमनयभेदेन तदादिपणेता नाभेयदेव एवेति, तस्यैवार्य नमस्कार इति तन्महामोहविलसितं, ऋषभनमस्कारस्य नमोऽईद्भय इत्यत एव प्रसिद्धः, प्रतिव्यक्तिऋषभादिनमस्कारस्य MAAmmOWwwwwmummmwwwcomwww
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy