SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ शतकम् ॥१०॥ णात्, योग्यताविशेषे च ज्ञानिवचनादिनावगते दोषमुपेक्ष्यापि तेषां वंदनवैयावृत्त्यादिव्यवहारः संगच्छतेऽत एवाति स्वोपत्र प्रतिमा । मुक्तकौरवचनाद्भाविभद्रतामवगम्य स्थविरतस्खलितमुपक्ष्याग्लान्या वैयावृत्यं निर्ममे, किं च नमो सुअस्स' । चिः इत्यादिनापि द्रव्यनिक्षेपस्याराध्यत्वं सुप्रतीतं, अक्षरीदश्रुतभेदेषु संज्ञाव्यंजनाक्षरादीनां भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात, पत्रकपुस्तकलिखितस्य च, 'दव्वसुरं जं पत्तयपोत्थयलिहिअं' इत्यागमेन द्रव्यश्रुतत्वप्रसिद्धेः, भावश्रुतस्यैव वंद्यत्वतात्पर्ये च जिनवागपि न नमनीया स्यात् , केवलज्ञानन दृष्टानामर्थानां जिनवागयोगेन निसृष्टायास्तस्याः श्रोतृषु भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात् , तदा 'केवलनाणेणत्थे गाउँ, जे तत्थ पन्नवणजोगो । ते भासइ तित्थयरो, वयजोगमुअं हवइ | सेसं' ति । तस्य वाग्योगः श्रुतं भवति शेषमप्रधानं द्रव्यभूतमिति तुरीयपादार्थः, भगवन्मुखोत्सृष्टैव वाणी वन्दनीया, नान्येति वदंस्तु स्वमुखेनैव व्याहन्यते, केवलायास्तस्याः श्रवणायोग्यत्वेन श्रोतृषु भावश्रुताजननाद्रव्यश्रुतरूपताया अप्यनुपपत्तेः, मिश्रायाः श्रवणेऽपि विश्रेणीस्थित एवागते, पराघातवासिताया ग्रहणे च जिनवाणी प्रयोज्याया अन्याया अपि यथास्थितवाच आराध्यवाक्षतेः । एतेन सिद्धाचलादेराराध्यत्वमपि व्याख्यातं, ज्ञानदर्शनचारित्ररूपभावतीर्थ हेतुत्वेनास्य द्रव्यतीर्थत्वादनन्तकोटिसिद्धस्थानत्वस्यान्यत्राविशेषेऽपि स्फुटप्रतीयमानतद्भावेन तीर्थस्थापनयैवात्र विशेषात् , अनुभवादिना, तथा सिद्धौ श्रुतपरिभाषाभावस्यातंत्रत्वादन्यथा चतुर्वर्णश्रमणसंघे तीर्थत्वं तीर्थकरे तु तदद्वाह्यत्वमित्यपि विचारकोर्टि नाटीकेत व्यवहारविशेषाय 'यथा तथा परिभाषणमपरिभाषणं च न व्यामोहाय विपश्चितामिति स्थित भावनिक्षेपे तु न विप्रतिपत्तिरिति चतुर्णामपि सिमाराध्यत्वं। १ यथा-इत्यत्र तथा इति. Amwwwww FaPANAMAM
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy