________________
स्वोपड़
प्रतिमा शतकम.
वृत्तिः
श्लोक
च ऋषभाजितादिकाले एकस्तवद्विस्तवादिपक्रियापि कर्तुं शक्या, शाश्वताध्ययनपाठस्य लेशेनापि परावृत्या कृतांतकोपस्य वज्रलेपत्वात्, न च नामोत्कीर्जनमात्रे, तात्पर्यादविरोधोर्थोपयोगराहतस्योत्कीर्तनस्य राजविष्टिसमत्वेन योगिकुलजन्मबाधकत्वात् , अत एव द्रव्यावश्यकस्य निषेधः। सूत्रेऽ'नुपयोगश्च, द्रव्यम्' इति शतश उद्घोषितमनुयोगद्वारादौ अर्थोपयोगे तु वाक्यार्थतयैव सिद्धा द्रव्यजिनाराध्यतेति, एतेन द्रव्यजिनस्याराध्यत्वे करतलपरिकलितजलचुलुकवर्तिजीवानामप्याराध्यत्वापत्तिस्तेषामपि कदाचिन्जिनपदवीमाप्तिसंभवादिति, शासनविडंबकस्य लुम्पकस्योपहासोनिरस्तो, द्रव्यजिनत्वनियामकपर्यायस्य तत्रापरिज्ञानात् । मरीचिस्तु स्वाध्यायध्यानपरायणो महात्मा भगवतो नाभिनंदनस्य चंदनप्रतिमया गिरापरिकलितवादशपर्यायपुलकितगात्रेण भक्तिपात्रेण भरतचक्रवर्तिना वंदित एवेति प्रसिद्धमावश्यकनियुक्तौ पुरश्चकार च वंदनानिमित्तं द्रव्यजिनपर्याय, न त्वौदयिकभावं, तथाहि'णवि ते पारिवज्ज, वंदामि अह, णते इहं जम्मं । जं होहिसि तित्थयरो, अपच्छिमो तेण वंदामि' चि, पापिष्ठस्त्वाचष्ट उक्तमिदं नियुक्तौ परं न सूत्र इति, नियुक्तिकमेवेति तस्य दुष्टस्य शिरसि ऋषभादिवारके चतुर्विंशतिस्तवसूत्रपाठानुपपत्तिरेव महारः, यदि 'द्रव्यजिनतां पुरस्कृत्य भरतेन मरीचिःवंदितः कथं न साधुभिरित्यत्रानुविशिष्यवंदने तद्वयवहारानुपपत्तिरेव समाधान, सामान्यतस्तु'जे अ अइआसिद्धा' इत्यादिनाऽनागतमेव । अथ द्रव्यत्वस्य द्रव्यसंख्याधिकारेऽनुयोगद्वारादिषु एकमविकबद्धायुष्काभिमुखनाम| गोत्रभेदभिन्नस्यैवोपदेशादभावजिनादतिव्यवहितपर्यायस्य मरीचे व्यजिनत्वमेव कथं युक्तमिति चेत् ? सत्यं-आयुःकर्मघटितस्य द्रव्यत्वस्यैकमविकादेर्भेदनियतत्वेऽपि फलीभूतभावाईत्पदजननयोग्यतारूपस्य प्रस्थकादिद्रष्टांतेन रेऽपि नैगमनयाभिप्रायेणाश्रय
१ द्रव्यतः इत्यपि.
ALANNwmmmmwwwnew
MAMA
Sn ९ ॥