________________ प्रतिमा शतकम्. स्वोपज्ञ वृत्तिः टीकाकर्तुः प्रशस्तिः। जयति विजितरागः कवलालोकशाली कलितसकलभावः सत्यवादी नतेन्द्रः / दिनकर इव तीर्थ वर्तमानं वितन्वन् कमलमिव विकासिश्रीजिनो वर्द्धमानः // 1 // तदनु सुधर्मस्वामी श्रीजंबूप्रवरमुख्यसूरिवरैः / शासनमिदं विजयते चारित्रधनैः परिगृहीतम् // 2 // क्रमात्माप्ततपाभिख्या जगद्विख्यातकीत्तेयः / चान्द्रे कुले समभूवन् श्रीजगच्चन्द्रसूरयः // 3 // मरालैीतार्थैः कलितबहुलीलः शुचितपः क्रियावद्भिर्नित्यं स्वहितविहितावश्यकविधिः। प्रवाहो गङ्गाया इव दलितपङ्कव्यतिकरस्तपागच्छः स्वच्छः सुचरितफलेच्छः प्रजयति // 4 // समर्थगीतार्थसमर्थितार्थि-ज्ञानक्रियोद्बोधपवित्रितेऽस्मिन् / उत्कृष्टसप्ताष्टपरम्पराप्तशैथिल्यपङ्कादपि नास्ति शङ्का // 5 // जाते मुनीन्दुपतिमारिबर्गे स्वर्गेशसाहाय्यमिव प्रपन्ने। आनन्दनन्दैविमलाभिधानरिहोद्धृता सरिभिरुग्रचर्या // 6 // क्रियामलेन पाखण्डैर्जगदेतद्विडम्बितम् / विमलेविमलीचक्रे विमलक्रियया पुनः // 7 // तदुरुपट्टनभस्तलभास्करो विजयदानमुरुर्विजयंदधौ / तपगणप्रभुता सुविदेहभूरिव बभूव यतो विजयोर्जिता // 8 // येनाकब्बरभूधरेऽपि हि दयावल्लिः समारोपिता विश्वव्याप्तिमतीव भूरिफलिता धर्मोजितै कर्मभिः / हीरः क्षीरसमुद्रसान्द्रलहरीप्रस्पर्द्धिकीर्त्तिव्रजः स श्रीमान् जिनशासनोन्नतिकरस्तत्पट्टनेताजनि // 9 // // 30 //