________________ स्वोपज्ञ प्रतिमा शतकम्. // 304 // वृत्तिः लुम्पाकैर्दनुजैरिवाप्तिदूरितैरे निलीय स्थितं शंभोर्दाभिकजृभदंभदलने दंभोलिराज्ञा धृता / पक्षोऽवादि शिलोच्चयैः किल निजः कुत्रापि नो दर्शितः सुत्रामाधिकधाम्नि हीरविजये सूरीश्वरे जाग्रति // 10 // तत्प(दा)भ्युदयकारिणोऽभवन् सूरयो विजयसेननामकाः / / यैर्विजित्य नृपपर्षदि द्विजान् निर्मितं द्विजपतेर्द्विपद्यशः // 11 // तत्पट्टालङ्करणा आसन् श्रीविजयदेवसूरिवराः / यैः कीर्तिमौक्तिकौघेरलङ्कतं दिग्वधूटन्दम् // 12 // श्रीविजयसिंहमूरिः श्रीमान् विजयप्रभश्च सूरिवरः। तत्पट्टपुष्पदन्तावुभावभूतां महाभागौ // 13 // इतश्चश्रीहीरान्वयदिनकृतकृतिप्रकृष्टोपाध्यायास्त्रिभुवनगीतकीर्त्तिवृन्दाः। षटूतर्कीयदृढपरिरंभभाग्यभाजः कल्याणोत्तरविजयाभिधा बभूवुः // 14 // तच्छिष्याः प्रतिगुणधाम हेमसुरेः श्रीलामोत्तरविजयाभिधा बभूवुः / श्रीजीतोत्तरविजयाभिधानश्रीमन्नयविजयौ तदीयशिष्यौ // 15 // तदीयचरणांबुजश्रयणविस्फुरद्भारतीप्रसादसुपरीक्षितप्रवरशास्त्ररत्नोच्चयैः। जिनागमविवेचने शिवसुखार्थिनां श्रेयसे यशोविजयवाचकैरयमकारि तत्त्वश्रमः // 16 // पूर्व न्यायविशारदत्वविरुदं काश्यां प्रदत्तं बुधैायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् / nuwannanawunnniwnarvarnaniwwwanmanmannnnnnnishAAAAAAAAAAAAA // 30 //