________________ वृत्तिः प्रतिमा | र्थत्वादन्यथा केवलज्ञानकालाननुवर्तिश्रुतज्ञानमप्यनुपजीव्यं स्याद्देवानांप्रियस्येति न किश्चिदेतदित्यर्थः // 101 // स्वोपन शतकम् . शिष्टं काव्यत्रयं स्पष्टम् - // 302 श्लो१०१ स्वान्तं शुष्यति दयते च नयनं भस्मीभवत्याननं दृष्ट्वा तत्प्रतिमामपीह कुधियामित्यातलुप्तात्मनाम्।। -104 अस्माकं त्वनिमेषविस्मितदृशांरागादिमां पश्यतां सान्द्रानन्द सुधानिमज्जनसुखं व्यक्तीभवत्यन्वहम् 102 मन्दारद्रुमचारुपुष्पनिकरैर्वृन्दारकैरर्चितां सवृन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते / निस्यन्दात्स्नपनामृतस्य जगतीं पान्तीममन्दामयावस्कन्दात् प्रतिमा जिनेन्द्र परमानन्दाय वन्दा . महे // 103 // ग्रन्थकर्तुः प्रशस्तिः। तपगणमुनिरुद्यत्कीर्त्तितेजोभृतां श्रीनयविजयगुरूणां पादपद्मोपजीवी। शतकमिदमकार्षीद्वीतरागैकभक्तिः प्रथितशुचियशःश्रीरुल्लसद्व्यक्तयुक्तिः // 104 // इति न्यायविशारद न्यायाचार्य श्रीमद्यशोविजयवाचकपुङ्गवैर्विरचिता स्वोपज्ञवृत्तिः समाप्ताः // 302 //