________________ स्वोपक्ष वृत्तिः श्लो.९ -10. प्रतिमा || भगवदिबे हृदि धृते भगवद्पानुस्मरणं, तद् ध्याने च क्षीणकिल्विषत्वानैश्चयिकद्रव्यगुणपर्यायसाम्यपर्यालोचनायां त्वमई अहंत्वशतकम् मित्यभेदज्ञानं समापत्तिरूपं भवति / तत्र चान्त ल्पे युष्मदस्मत्पदे उल्लिख्येते, ततश्च भिन्नत्वेन ज्ञातयोरज्ञातयोरभेदस्यायोग्य॥२९९॥ त्वज्ञाने युष्मदस्मत्पदयोर्वेदान्तिरीत्याऽखण्डब्रह्मणि जहदजहल्लक्षणायामन्त लाजं निर्विकल्पकसाक्षात्काररूपं ज्ञानमाविर्भवति, भेदनयार्थव्युत्क्रान्ताभेदग्राहिद्रव्यार्थोपयोगेन वा सोऽयमनालंबनयोगश्चरमावश्चकयोगमातिभमहिम्ना यदर्शनाद्भवति, सा भंगवत्पतिमा परमोपकारिणी, तद्गुणवर्णने योगीन्द्रा अपि न क्षमा! इत्यावेदितं भवति / ननु कथमर्वाग्दृशां भगवत्पतिमा दर्शनाज्जातप्रमोदानां माणिनां संभवति ? इषुपातज्ञातेन केवलज्ञानादागेव तदभिधानात् उक्तं च-द्रागस्मात्तदशेनमिषुपातमात्रतो ज्ञेयं, एतच्च केवलं तद् ज्ञानं यत्तत्परं ज्योतिरिति, सत्यं, तत्त्वतस्तदानीमेव संभवेऽपि योग्यतया प्रागप्युक्तो बाधकाभावात् , शुक्लध्यानवद् योगानुभवश्चात्र साक्षीति किं वृथा बागाडंबरेण ? // 99 // उक्तमेव भावयन्नभिष्टौतिकिं ब्रह्मैकमयी किमुत्सवमयी श्रेयोमयो किं किमु ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोभामयी। इत्थं कि किमिति प्रकल्पनपरैस्त्वन्मूर्तिरुद्वीक्षिता किं शब्दांतिगमेव दर्शयति सद्ध्यानप्रसादा न्महः // 10 // 1 सर्वातिगमेव, इत्यपि / // 299