________________ प्रतिमा व्याख्या-त्वद्विम्ब' इति-तव बिम्ब त्वद्विम्ब, तस्मिन् हृदि विशेषेण धृते सति प्रागेव सुतरां रूपान्तरं स्वोप शतकम् . | कार्यान्तरं न स्फुरति न स्मृतिकोटीमाटीकते, सदृशदर्शनविधया स्मारकेन त्वद्धिबेन त्वदन्यस्य स्मृतिपथारोहायोगात् , तद्विवमेव | |वृत्ति // 298 // च तादृशं प्रकृतिरमणीयं येनान्यबिंबमेव दृक्पथे नागन्तुं दीयते, कुतरतरां तदाकारिणि देवत्वमुंपनीतदोषेणापि भावात् , अवदामला . चाष्टसहस्रीविवरणे-“यदेवैतद्रपं प्रथममथसालंबनपदं तदेवध्यानस्थं घटयति निरालंबनसुखम् ।रभागौरीगङ्गावलयशरकुन्तासिकलितं कथं लीलारूपं स्फुटयतु निराकारपदवीम् // 1 // अता लीलैशीत्यपि कपिकुलाधीतचपलस्वभावोद्धान्तत्वं विदधति परीक्षां हि सुधियः। न यद् ध्यानस्याङ्गं तदिह भगवद्रपमपि किं जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते" // 2 // इति / ततस्त्वचिंबालंबनध्यानान्तरं, त्वद्रूपे तु स्मृते ध्याते सति भुवि रूपमात्रमधानं भवेत् , सर्वेषां रूपाणांततो निकृष्टत्वात् , सर्वोत्कृष्टत्वेनैव च भगवद्पस्य ध्येयत्वात् , तदाहु:-" सर्वजगद्वितमनुपममतिशयसन्दोहमृद्धिसंयुक्तं / ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव // 1 // सिंहासने निविष्टं छत्रत्रयकल्पपादपस्याधः / सत्वार्थसंमवृत्तं देशनयाकान्तमत्यन्तं // 2 // आधीनां परमौषधमव्याहतमखिलसंपदा बीजम् / चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणं // 3 // निर्वाणसाधनं भुवि भव्यानामग्र्यमतुलमाहात्म्यम् / सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च" // 4 // इति / तस्मात्त्वद्रपध्यानात् द्रव्यगुणपर्यायसादृश्येन निश्चयतस्त्वन्मदभेदबु युदयः स्यात् , तदुक्तं-"जो जाणदि अरहते " इत्यादि, ततः युष्मदस्मत्पदोल्लेखो न भवति, ध्यावृध्यानध्येयानां त्रयाणामेकत्वमाप्तेः, ततः किश्चिदगोचरं चिन्मयं ज्योतिः परब्रह्माख्यं स्फुरति, तत्स्फुरणेनैव सर्वक्रियाणां साफल्यात् , अयं भाव:१ " देवत्वमपनीतं दोषभावात् " इत्यपि क्वचित् / // 298 //