________________
श्लो.९५
प्रतिमा
व्याख्या-पुण्यं कर्म' इति-पुण्यं सरागकर्म अन्यद्वीतरागकर्म शास्त्रेषु धर्मायोदितं परिभाषितं इति शतकम्। शुद्धनयं शुद्धनयार्थ श्रुत्वा न चात्र च एवार्थो भिन्न क्रमश्च मात्रैवेत्यर्थः, सुधियां पण्डितानां एकान्तधीरेकान्ताभिनिवेशो युज्यते ॥२९॥
एकनयाभिनिवेशस्य मिथ्यात्वरूपत्वादन्यनयविचारेण तस्य मूलोत्खननाच्च,-" धम्मकंखिए पुण्णकंखिए,” इत्यादौ धर्मः श्रुतचारित्रलक्षणः, पुण्यं तत्फलभूतं शुभकर्मेति विवृण्वता वृत्तिकृता साधनफलेच्छाभेदेन भेदेऽपि श्रुतचारित्रभावान्यतरानुगतक्रियाणां धर्मत्वेनैव निश्चयाङ्गव्यवहारनयनाभ्युपगतत्वात् गुरुजिहिकया स्वर्गादीच्छाया अप्युपेयमोक्षेच्छाऽव्याघात(कोत्वेनादोषत्वात् , "प्रयाणभङ्गाभावेन निशि स्वापसमो हि सम्यग्दृशां स्वर्गलाभ' इति योगमर्मविदः, यदिवोक्तनिश्चय एव रुचिः सापिन युक्ता, हि यतस्तस्मादुक्तावान्तरनिश्चयात् शुद्धतरोऽतिशुद्धो नयो निश्चयः चतुर्दशगुणस्थाने तचरमसमये इत्यर्थः, किं धर्म न ब्रूते ? ब्रूत एव, तथा चैकान्ताभिनिवेशे ततोऽर्वाक सर्वत्राप्यधर्मः स्यात्, स चानिष्टस्तवापीति भावः, शुद्धनिश्चयाभिमतधर्माहभावेन प्रागपि धर्म व्यवहारनयेनाभ्युपगच्छामः-"सोउभयक्खयहेऊ सेलेसी चरमसमयभावी जो। सेतो पुणणिच्छयओतस्सेव पसाहगो भणिओ" त्ति ॥ धर्मसङ्ग्रहणिप्रतीकपर्यालोचनादिति चेत्, तर्हि त्यक्तस्त्वया एकान्ताभिनिवेश, आयातोऽसिमार्गेण, प्रतिपद्यस्व द्रव्यस्तवेऽपि निश्चयधर्मप्रसाधकतया व्यवहारधर्मवं, माभूत्तव भ्रान्तिकृद्रासन्नादिभावः, प्रस्थक्कादिदृष्टान्तभावितविचित्रनैगमनयप्रवृत्तरत्राश्वासहेतुत्वात् , तदाह-तदातां तु विशुद्धनिश्चयाभिमतधर्माङ्गता अधिकृते द्रव्यस्तयेऽपि अभ्रान्तं भ्रान्तिरहितमीक्षामहे, अतो विशेषदर्शिनामस्माकं वचनेनैव त्वयैतत्तत्वं श्रद्धेयम्, इत्युपदेशे तात्पर्य । अयं च निश्चयनयः परिणतिरूपभावग्राहककाष्ठाप्राप्तवंभूतरूपः, येन शैलेशीचरमक्षणे शुद्धो धर्म उच्यते, अर्वाक तु तदङ्गतया व्यवहारात् कुर्वद्रूपत्वेन हेतुताभ्युपगम
२९२॥