SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रतिमा धानायाः पूजाया आगमैकविहितत्वात्, कस्यापि श्राद्धस्यापि, किंवत् सुपात्रवत् , इतस्त्वन्यादृशीं लौकिकी सामान्यधर्मवचनप्राप्तां, स्वोपज्ञ शतकम. नः अस्माकं आचार्या दानभेदवद्दानविशेषवत् पुण्यायेच्छन्ति, तदुक्तं बिंबसाधनमाश्रित्य षोडशप्रकरणे-“ एवंविधन यदिब | वृत्तिः ॥२९॥ साधनं तद्विदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥ लोकोत्तरं तु निर्वाणसाधकं परं सकलमिहाश्रित्य ! अभ्युदयोऽपि हि परमो भवति चात्रानुपङ्गेण-" कृपिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव बीजात्" ॥१॥ एतच्चाबाधक, क्षमादिभेदानामप्यलौकिकानामेवोत्तमक्षमामार्दवेत्यादिसूत्रेण धर्ममध्ये ग्रहणादन्येषामर्थतः पुण्यत्वसिद्धेलौकिकत्वाभिधानादेवेत्थमुपपत्तेः, आह-" उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती । साविक्खं आइतिगं लोगिकमियरे दुर्ग जइणो" ॥ दानविशेषस्य पुण्यत्वं चानुकंपादानादेः अल्पतरपापबहुतरनिर्जराकारणत्वेन सूत्रोपदिष्टस्य वा दानादिपुण्यमध्ये मोक्तं, धर्ममध्येऽपि तद्वत्पूजापि स्यादिति परमार्थः ॥ ९४ ॥ ननु पूजादानप्रवचनवात्सल्यादिकं सरागकृत्यं, तपश्चारित्रादिकं तु वीतरागकृत्यमिति विविक्तविभागो दृश्यते तत्राचं पुण्यमन्त्यं धर्मः स्यादत एव धर्मपदार्थो द्विविधः, एकः संज्ञानयोगलक्षणोऽन्यः पुण्यलक्षण इति शास्त्रवार्तासमुच्चये हरिभद्रमूरिभिरुक्तं, ततो ग भौतिकस्य देवपूजादिकर्मणः कथं धर्मत्वं रोचयामः तत्राह| पुण्यं कर्म सरागमन्यदुदितं धर्माय शास्त्रेष्विति श्रुत्वा शुद्धनयं न चात्र सुधियामेकान्तधीर्युज्यते। | तस्माच्छुद्धतरश्चतुर्दशगुणस्थाने हि धर्म नयः किं ब्रूते न तदङ्गतां वधिकृतेऽप्यभ्रान्तमीक्षामहे ॥९५॥ ॥२९॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy