________________
प्रतिमा शतकम्. ॥२८॥
शिष्ये मूढे गुरौ मूढे श्रुतं मूढमिवाखिलम् । इति शङ्कापिशाचिन्यः सुखं खेलन्तु बालिशैः ॥ ४ ॥
मृत्तिः स्फुटोदर्के तर्के स्फुटमभिनवे स्फूर्जति सतामियं प्राचां वाचां न गतिरिति मूढः प्रलपति ।
लो.९२ न जानीते चित्रां नयपरिणति नापि रचनां वृथा गर्वग्रस्तश्छलमखिलमन्वेष्टि विदुषाम् ॥५॥ शोभते न विदुषां प्रगल्भता पल्लवज्ञजडरागिपर्षदि । पञ्जरे बहुलकाकसकुले सङ्गता नहि मराललालना ॥६॥ कृष्णतासिततयोः स्फुटेऽन्तरे गीगंभीरिमुगुणे च भेदिनि । यस्य हंसशिशुकाकशङ्किता तं धिगस्तु जननी च तस्यधिक ॥ ७ ॥ अस्तु वस्तु तदथो यथा तथा पंडिताय जिनवादविदे नमः। शासनं सकलपाफ्नाशनं यदर्श जयति पारमेश्वरम् ॥ ८॥" ॥१२॥ 'इति पाशदोषाकरस्यमतंनिरस्तम्।
अत्रातिदेशेन कुमतशेषं निराकुर्वनाहएतेनेदमपि व्यपास्तमपरे यत्प्राहुरज्ञाः परं पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद्धर्मकृत् ।। तद्वत्तस्य सरागतां कलयतः पुण्यार्जनद्वारतो धर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते ॥९३॥ ॥२८॥