SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रतिमा व्याख्या -' एतेन ' इति - एतेन शुद्ध जिनपूजाया धर्मत्वव्यवस्थापनेन इदमपि व्यपास्तं निराकृतं यदपरेऽज्ञा अनधिगतसूत्रतार्याः प्राहुः, किं प्राहुः ? जिनार्चनादि पुण्यं कर्म, न पुनश्चारित्रवद्धर्मकृत् धर्मकारणं, व्यपासनहेतु॥२८९॥ | | मतिदेशप्राप्तं स्फुटयति - हि यतस्तस्य जिनाचदिकर्मणस्तद्वत् चारित्रवत् सरागतां कलयतां रागसहितस्य पुण्यार्जनद्वारतः शतकम्. शुभाश्रवव्यापारकत्वेन मोक्षस्य जननाद् व्यवहारतो धर्मत्वं न हीयते । अयं भावः - जिनार्चनादिकं पुण्यं कर्म स्वर्गादिकामनया करणात् इति साधनं न युक्तं, भ्रान्तकरणे व्यभिचारात्, अभ्रान्तैरिति विशेषणे च विशेष्यासिद्धिः, नहि तादृशाः जिनार्चनादिकं स्वर्णाय कुर्वन्ति किन्तु मोक्षायैवेति; आहच- 'मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुष' इति, स्वर्गार्थितया विहितत्वादिति हेतुरिति चेत्, न, अधिकारिणो त्रिवेकिनः सर्वत्र मोक्षार्थिन एवार्थतः सिद्धेः कचित्साधारण्येनैव फलोपदेशाच्च, यदुवाच वाचकः" जिनभवनं जिनबिंबं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिव सुखफलानि करपल्लवस्थानि " ॥ १ ॥ इति एतेनाभ्युदयैकफलकत्वे हेतुरप्यपास्तः, असिद्धेः, रागानुप्रवेशेन तत्वस्य च चारित्रेऽपि सत्वात् स्वरूपतस्तत्वस्य चोभयत्रासिद्धेः, निश्वच्छिन्नयद्धर्मावच्छेदेनाभ्युदयजनकता तद्धर्मवत्वं हेत्वर्थचारित्रस्य सरागत्वेनाभ्युदयजनकता न स्वरूपत इति न दोष, इति चेत्, न, द्रव्यस्तवत्वेनापि चारित्रजनकताघटितरूपेण । भ्युदयाजनकत्वात्, विजातीययोगत्वेनैव द्रव्यस्तवस्य स्वर्गजनकतेति चेत्, चारित्रस्यापि तथैव तत्वमिति तत्तुल्यतया पुण्यत्वे का क्षतिः ?, अथ शिवहेतवो न भवहेतवो, हेतुसङ्करप्रसङ्गादिति निश्चयनयपर्यालोचनायां-सरागचारित्रकालीना योगा एव स्वर्गहेतवों, न चारित्रं, घृतस्य दाहकत्ववद् व्यवहारनयेनैव चारित्रस्वर्गजनकत्वोतेरित्यस्ति विशेष इति चेत्, न, द्रव्यस्तवस्थलेऽपि निश्चयतो योगानामेव स्वर्गहेतुत्वं न मोक्ष हेतोर्द्रव्यस्तवस्येति वक्तुं शक्यत्वाद्दा- ॥ २८९ ॥ स्वोपज्ञ धृतिः श्लो. ९३
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy