________________
प्रतिमा|| फले कालव्यवधानव्यवधानाभ्यां तु विशेषः क्रियायाः सत्वशुद्धिकारणतावच्छेदकको च प्रणिधानादिभावपूर्वकत्वं निविशते, सोपा
भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छेति वचनात् , ऋजुसूत्रादेशेनापि क्रियायामतिशयाधानं भावेनैवेति या द्रव्यस्तव क्रिया वृत्तिः ॥२८॥ व्यक्तिः शुभानुबन्धं प्रभूतनिर्जरां जनयेत् स कथमसंयमकर्मेति विचारणीयं, न चैकस्मात् प्रदीपालूमप्रकाशकार्यद्वयवदुपपत्तिः, श्लो.९२
कारणान्तराननुप्रवेशात्, नहि पापपुण्योपादानकारणशुभाशुभाध्यवसाययोर्योगपद्यं संभवति, तस्मात्कथश्चित्पदद्योत्यायतनासमावेशादेव तत्रासंयमोपपत्तिस्तच्छोधनमपि परिणामशुद्धया भवतीति सम्यग् मनस्यानेयं, यद्वा, द्रव्यस्तवाख्यगृहाश्रमरूपधर्माधिकारितावच्छेदकासदारंभकर्मापनयनसदारंभक्रियाव्यक्तिभिरिति कूपदृष्टान्तोपादानमत्रनापवादपदादौ मुनीनां प्रधानाधिकारिण एवाङ्गेऽधिकारादिति तत्त्वं ।
" अयमतिविशदो विचारमार्गः स्फुरति हृदि प्रतिभाजुषां मुनीनाम् ।
जडमतिवचनैस्तु विपलब्धाः कति न जडास्तदहो कलिर्बलीयान् ॥ १॥ निजमतिरुचितप्रकल्पिताथै विबुधजनोक्तितिरस्क्रियापराणाम् । श्रतलवमतिदृप्तपामराणां स्फुरितमतन्त्रमुदीक्ष्य विस्मिताः स्मः ॥ २॥ विधिवदनुपदं विवृण्वते ज्ञा नयगमभङ्गगभीरमाप्तवाक्यम् । कथमिव भगवद्विनिश्चितार्थ तदिदमधौतयुतैर्जनहीतम् ॥३॥
२८७॥