SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ स्वोपक वृत्तिः श्लो.९२ प्रतिमा द्रव्यस्तवं नेच्छन्ति, यच्चोक्तं 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्किश्चिद्, व्यभिचारात् शतकम् || कस्यचिदल्पसत्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यव॥२८६ सायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानाः समारंभाः' इति न्यायाद्भावस्तव एव सति तत्त्वतस्तीर्थस्योन्नतिकरणं भावस्तववत एव, तस्य सम्यगमरादिभिः पूज्यत्वात्तमेवच दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टाः इति स्वपरानुग्रहोपीहैवेति गाथार्थः । आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्त्तते आहोस्त्रिदुपादेयोऽपि ? उच्यते-साधूनां हेय एव श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकार:-" अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दद्दथए कूवदिटुंतो" ॥१॥ अकृत्स्नं प्रवर्तयन्तीति संयममिति सामर्थ्याद्गम्यतेऽकृत्स्नप्रवर्तकास्तेषां विरताविरतानामिति श्रावकाणामेष खलु युक्तः एष द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वाद्युक्त एव, किंभूतोऽयमित्याह संसारपतनुकरणः संसारक्षयकारक इत्यर्थः, द्रव्यस्तव आह, य प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त?, इत्यत्र कूपदृष्टान्त इति-"जहा गवणगराइसंनिवेसे केइ पभूतजलाभावतो तण्हादिपरिगता (तदपनोदार्थ) कृपं खणंति, तेसिं च जइ वि तण्हादि या वडदंति मट्टिकाकद्दमाईहिं अ मलिणिजंति, तहावि तदुब्भवेणं चेव पाणिएणं तेसि तण्हादिना सोअमलो पुत्वगो य फिट्टति, सेसकालं च ते तदण्णे य लोगा सुहभागिणो भवंति एवं दवत्थए जइवि असंजमो तहावि तओ चेव साय परिणाममुद्धी भवति जातं असंजमोवज्जियं अण्णं च णिरवसेसं खवेतित्ति, तम्हा विरताविरतेहिं दवथओ कायवो मुभाणुबंधीपभृतणिज्जराफलो अ चि काऊणं" इति गाथार्थः इति । अत्र हि द्रव्यस्तवभावस्तवक्रिययोः स्वजन्यपरिणामशुद्धिद्वारा तुल्यवन्मोक्षकारणत्वमान्नातं २८६॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy