________________
स्वोपक
वृत्तिः
श्लो.९२
प्रतिमा द्रव्यस्तवं नेच्छन्ति, यच्चोक्तं 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्किश्चिद्, व्यभिचारात् शतकम् || कस्यचिदल्पसत्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यव॥२८६
सायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानाः समारंभाः' इति न्यायाद्भावस्तव एव सति तत्त्वतस्तीर्थस्योन्नतिकरणं भावस्तववत एव, तस्य सम्यगमरादिभिः पूज्यत्वात्तमेवच दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टाः इति स्वपरानुग्रहोपीहैवेति गाथार्थः । आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्त्तते आहोस्त्रिदुपादेयोऽपि ? उच्यते-साधूनां हेय एव श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकार:-" अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दद्दथए कूवदिटुंतो" ॥१॥ अकृत्स्नं प्रवर्तयन्तीति संयममिति सामर्थ्याद्गम्यतेऽकृत्स्नप्रवर्तकास्तेषां विरताविरतानामिति श्रावकाणामेष खलु युक्तः एष द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वाद्युक्त एव, किंभूतोऽयमित्याह संसारपतनुकरणः संसारक्षयकारक इत्यर्थः, द्रव्यस्तव आह, य प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त?, इत्यत्र कूपदृष्टान्त इति-"जहा गवणगराइसंनिवेसे केइ पभूतजलाभावतो तण्हादिपरिगता (तदपनोदार्थ) कृपं खणंति, तेसिं च जइ वि तण्हादि या वडदंति मट्टिकाकद्दमाईहिं अ मलिणिजंति, तहावि तदुब्भवेणं चेव पाणिएणं तेसि तण्हादिना सोअमलो पुत्वगो य फिट्टति, सेसकालं च ते तदण्णे य लोगा सुहभागिणो भवंति एवं दवत्थए जइवि असंजमो तहावि तओ चेव साय परिणाममुद्धी भवति जातं असंजमोवज्जियं अण्णं च णिरवसेसं खवेतित्ति, तम्हा विरताविरतेहिं दवथओ कायवो मुभाणुबंधीपभृतणिज्जराफलो अ चि काऊणं" इति गाथार्थः इति । अत्र हि द्रव्यस्तवभावस्तवक्रिययोः स्वजन्यपरिणामशुद्धिद्वारा तुल्यवन्मोक्षकारणत्वमान्नातं
२८६॥