________________
प्रतिमा शतकम. ॥२८॥
यच्च तत्कालीनासंयमोज्झनं शुभभावेनोक्तं तद्विधिभक्त्यन्यतरवैगुण्यएवान्यथा स्वरूपासंयमस्य द्रव्यस्तवानतिरेकेणोज्झितुमशक्यत्वादनुबन्धासंयमस्य चानुद्भवोपहतत्वाद् द्रव्यस्तवस्यामधानत्वमपि स्वरूपत एव विधिभक्तिसाद्गुण्योपटंहितभावप्रवृद्धौ वृत्तिः भावस्तवस्यैव साम्राज्यात, इदमित्थमेव महाबुद्धिशालिना हरिभद्राचार्येणाभिहितं, तथापि यस्य स्थलबुद्धेमनसि नायाति तदनुकंपार्थ तदु ग्रन्थपस्थिं लिखामः-“दवथओ भावथओ दवथओ बहुगुणोत्ति बुद्धिसिया । अनिउणमइवयणमिणं छज्जीवहिजे जिणा बिति" द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवः बहुगुणः प्रभूततरगुण इति एवं बुद्धि स्यात् एवं चेन्मन्यसे इत्यर्थः, तथाहि; किलास्मिन् क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसायः, तीर्थस्य चोन्नतिकरणं दृष्ट्वा तं च क्रियमाणमन्येऽपि प्रतिबुध्यन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निघाय द्रव्यस्तवो बहुगुण इत्यस्यासारताख्यापनायाह-अनिपुणमतिवचनमिदमिति अनिपुणमतेवचनमनिपुणमतिवचनं इदमिति द्रव्यस्तवो बहुगुणमिति गम्यते, किश्च षड्जीवहितमित्यत्र आह-पड़जीवहितं जिना ब्रुवते षण्णां पृथिवीकायादीनां जीवानां हितं जिनास्तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते, किञ्च षड्जीवहितमित्यत आह-" छज्जीवकायसंजमुदवथए सो विरुज्झए कसिणो । तो कसिणसंजमविऊ पुप्फाईअंण इच्छंति" ॥ षड़जीवकायसंयम इति, षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः संघट्टनादिपरित्यागः षड्जीवकायसंयमः असौ हितं, यदिनामैवं ततः किमित्यत आह-द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स षड्जीवकायसंयमः किं विरुध्यते न सम्यक् संपद्यते कृत्स्नः संपूर्ण इति पुष्पादिसंलुश्चनसंघटनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं तस्मात् कृत्स्नसंयमविद्वांस इति कृतस्नसंयमप्रधाना विद्वांसः तत्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणांव्यपोहाथै, ते किम् ? अत आह-पुष्पादिकं ॥२