________________
प्रतिमा न्येवेति, सचित्तपुष्पादिना पूजाध्यवसाये द्रव्यतः पापाभ्युपगमेऽचित्तपुष्पादिनापि ततो भावतः पापस्य दुर्निवारत्वान्मृन्महिष- | स्वोपा शतकम्.. व्यापादन इव शौकरिकस्य तत्किमिति मुग्धधन्धनार्थ कृत्रिमपुष्पादिनापि पूजां व्यवस्थापयसि ? एवं हि त्वयोष्णजलादिनैवा॥२८४॥
भिषेकोऽपि वाच्यः, मूलत एव तनिषेधं किं न भाषसे ! दुरन्तसंसारकारणं हि धर्मारंभशङ्काः, तदाहुः श्रीहरिभद्रसूरयः- श्लो.९२ "अण्णत्थारंभवओ धम्मेणारंभओ अणाभोगा । लोए पवयणखिसा अबोहिबीअं ति दोसाय" ॥ इन्द्राभिषेकेऽत्रत्यजलादिग्रहणं जिनपूजार्थं तत्र तु तत्रत्यस्यैवेत्यत्र तु कारणं मालार्थस्वनित्यभक्त्यर्थत्वादीनि मा विपियं शविष्ठाः, अभिगमवचनं तु योग्यतया भोगाङ्गसचित्तपरिहारविषयं, यथा घटेन जलमाहरेत्यत्र घटपदं योग्यतया छिद्रेतरविषयं अन्यथा सबालकाः खियो मुनिवन्दने नाभिगच्छेयुः, चैत्यवन्दनभाण्यादौ चाभिगमे सचित्तद्रव्योज्झनं श्राद्धानां पुष्पादिना पूजाविधानेनोक्तमिति किमुपजीव्यविरोधेनाभिगमदुर्व्याख्यानेन, यदि च योग्यता न पुरस्क्रियते तदाऽचित्तद्रव्यानुज्झनं द्वितीयाभिगम इति खड्गछत्रोपानत्मभृत्यचित्तद्रव्यं राजादिभिरपरित्याज्यं स्यात्, प्रवचनशोभानुगुणाचित्तद्रव्योपादानमेव द्वितीयार्थ इति चेत् ; पूजाधवसरे तदनुपयोगिसचित्तद्रव्योज्झनमेव प्रथमार्थ इति किं न दीयते दृष्टिः ? येन शाकिनीव वाक्छलमेवान्वेषयसि, पुष्पवर्दलविकर्षणमपि विकरणमात्रसंपादनार्थ अधोवृन्तजलस्थलजपुष्पविकिरणस्यैव पाठसिद्धत्वात्, न पूजाले सचित्तशङ्का तदृष्टान्तेनानेया, एतेन यदुत्पेक्षितं जातिसकरवता पूजायामादौ पुष्पाशुपमर्दादधर्म एव तदनन्तरं शुभभावसंपत्या तु धर्म इति धर्माधर्मसंकर एवेति तनिरस्तं, एवं हि यागेऽपि हिंसया पागधर्म उत्तरादानदक्षिणादिना खनन्तरं धर्म इति वदतः स ब्रह्मचारितापाताद, १ "नित्यभक्त्यर्थत्वादिति " इत्यपि पाठः ।
॥२८४||