________________
प्रतिमा शतकम् ॥२८॥
कारणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति मुरपुष्पेषु त्रसासं- स्वोपन भवोऽम्लानत्वं च हेतुश्चेतः हिंसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते, समवसरणे च वैक्रियाण्येव पुष्पाणि देवाःप्रभोरग्रे देश- वृत्तिः नोया विकिरन्ति, मण्यादिरचनाप्यचित्तैव, उक्तं च राजप्रश्नीयोपाने-“पुप्फवद्दलयं विउच्वंति" इत्यादि नवकमलरचनाप्य- श्लो.९२ चित्तव ज्ञेया, तथा प्रतिमानां वन्दनाघधिकारे पञ्चविधाभिगमविधौ सचित्तद्रव्योजनमुक्तमस्ति, जिनभवनप्रवेशेऽपि चैत्यवन्दनभाष्यादावयं विधिरुक्तोऽस्तीति ततो निरवद्यपूजैव देशविरतस्य संभवतीति श्रद्धेयं, सर्वविरतश्च स उच्यते-यो गृहीतपञ्चमहाव्रतः समितिगुप्तिसंपनो घोरपरीषहोपसर्गसहनदृढशक्तिमान् संन्यस्तसारंभपरिग्रहः सदानिरवद्योपदेशदाता वाङ्मात्रेणापि सावधतन्मिश्रताननुमोदकः परमगंभीरचेताः समाप्तभवपार इति, एतच्च हताशस्य पाशमतं संमूर्छितोत्प्रेक्षितप्रायं, सर्वतोविरताविरतयोरत्यन्तभेदाभावादालत्वव्यपदेशनिबन्धनाविरतेरुभयत्राविशेषात् पापस्थानत्वविभाजकोपाधिव्याप्यविषयताकाविरते. सर्वथाऽविरतित्वे द्रव्यतो हिंसादिनिवृत्तमिथ्याष्टिष्वव्याप्तेः सम्यक्त्वाभावस्यैव सर्वतोऽविरतित्वपरिभाषणे च सम्यग्दृष्टिव्यावृत्तावप्येकभेदानुगुण्याभावात्फलासिद्धे, किश्चेवमविरतसम्यग्दृष्टेरपि मिथ्यादर्शनविरत्यन्याविरतिभ्यां मिश्रपक्षपातः, इष्टापत्तिरत्र-" एगचाओ मिच्छादसणसल्लाओ पडिविरया एगचाओ अपडिविरया" इति पाठस्वरसादिति चेन्न, तस्याकारानाकारादि विषयत्वेन मूलगुणविरत्यभावापेक्षयैवाविरतेर्व्यवस्थापितत्वात् सम्यक्त्वाभावेन विरतिरविरतिरेवेति तु वृत्तिकृतैव परिभाषितं कातवाहोपुरुषिका? एतेन तृतीयभोऽपि विलूनशीणः, संपूर्णश्रद्धाभावेऽविरतेरेवैकस्याः साम्राज्यात् , ' यत्किश्चिदर्थाश्रदानेऽपि एकस्मिन्मप्यर्थे सन्दिग्धेऽर्हति तु निश्चयो नष्ट ' इति न्यायात संपूर्णश्रद्धानाभावान्मिथ्यात्वस्यैवावस्थितः, चतुर्थे च भने ' तमेव | ॥२८॥