________________
प्रतिमा | सञ्चं' इत्यादि संक्षेपरुचिसम्यक्त्वसद्भावाद्देशतो विरत्या देशविरतिःसंपन्नेति केयं वाचो युक्तिः, यदुत सर्वतो विरताविरतिः, ननु स्वोपड़ शतकम. देशविरतिरिति विशेषपरिज्ञानाभावेऽपि तादृशसम्यक्त्वेन माषतुषादीनां सर्वविरतिरप्यखंडा प्रसिद्धति किमपराद्धं देशविरत्या ?
वृत्तिः ॥२८२॥
येन सा तद्वतां न भवेत् ?. एवं बदंश्च सिद्धान्तलेशमपि नाघ्रातवान् हताशः, तथा चोक्तं भगवत्यां-" से नूणं भंते ! तमेव | श्लो.९२ सचं णीसंकं ? जं जिणेहिं पवेइअं, हंता गो० ! तमेव सचं णीसंकं जं जिणेहिं पवेइअं, से नूगं भंते ! एवं मणे धारेमाणे एवं पकरेमाणे आगाए आराहए भवति ?, हंता गो० ! तं चेव" त्ति । जीवादिविशेषपरिज्ञानाभावेन च मूलतः सम्यक्त्वाभावोक्तौ षटकायपरिज्ञानवतोऽपि स्याद्वादसाधनानभिज्ञस्य न सम्यक्त्वमित्युपरितनदृष्टौ तव सर्वमिन्द्रजालायते, तदुक्तं सम्मतौ-"छप्पिवि जीवनिकाए सद्दहमाणो न सद्दहइ भावा हंदी अपज्जवसुं सद्दहणा होइ अविभत्ता" । प्रकरणोक्तिरियमिति चेत्, किमुत्तराध्ययनेष्वपि नाधीता ? न स्मृता वा ?, तदुक्तं-" दवाणसवभावा सवपमाणेहिं जस्स उवलद्धा सबाहिं णयविहीहिं वित्याररुइत्ति णायचो" त्ति । विशेषाभावेऽपि सामान्या क्षतिश्चावयोस्तुल्या,-"एवं ण इमं सक्कमागारमावसंतेहिं," इत्यादिनापि न व्यामोहः कार्यः, सूत्रस्य नयगंभीरत्वान्नयगतेश्च विचित्रत्वात् , इदं तु तव दुस्तरवारिब्रूडनभयं स्यात् , यदुत भक्तिरागेण देवपूजाप्रवृत्तावारंभात् संयमक्षत्या कथं देशविरतिरिति, तेन भक्तिरागेण संयमासंयमापरिगणनाद्विरताविरतिरेव न देशविरतिरिति, तत्तु महामोहाभिनिवेशेनागणितपरलोकभयस्य तवैव दुस्तरवारिकृत्यम् , असदारंभपरित्यागेन सदारंभप्रवृत्तौ शुभयोगतः संयमक्षतिभयाभावात् भक्तिरागस्य प्रशस्तत्वे दोपाभावात् , तस्यैव च दोषत्वे च विदुपोऽपि वलात्पत्तिासङ्गाच, न हि विद्वानपि रागौत्कट्यादसमासेन प्रवर्त्तते, श्रमणोपासकानां देशविरतानां पृथग्गुणवर्णनाद्विरताविरतेभ्यस्तेऽतिरिच्यन्ते इति चेत्, ग्रहो, बालिशकेनेदं
२८२॥