________________
प्रतिमा शतकम्। ॥२८॥
Saa
त्तिः
-AAAAAmarnamannnnnnnnnnnnnnnnnnnnnn
स्वोचितान् सर्वव्रतनियमान् बिभर्ति ३, सर्वतो विरताविरतश्च स उच्यते-यस्य मनसि-" तमेव सच्चं णीसंकं जं जिणेहि पवेइअं" इति परिणामः स्थिरोभवति, परं मनसः प्रमादपारतन्त्र्याभृम्ना साधुसङ्गमाभावात्परिपूर्ण जिनभाषितं न जानीते कुलक्रमागतां च विरतिं पालयति, पूर्णसंयमज्ञानाभावादेवारंभेन जिनपूजां करोति भक्तिरागपारवश्यात् , ततएव संयममसंयम वा न गणयति, यावता कृत्येन संयमः पालयितुं न शक्यते तावानेवाविरतिभाग श्रुते भणित इति, यमुद्दिश्येदं सूत्रं-" इह खलु पाईणं वा ४ संतेगइआमणुआ भवंति अप्पिच्छा अप्पारंभा", इत्यादि चतुर्थभङ्गस्थविरत्यपेक्षया स्तोकया विरत्या तृतीयो भङ्ग इति विवेकः ४, श्रमणोपासको देशविरतश्च स उच्यते-यः श्रमणोपासनमहिम्ना प्रतिदिनप्रवर्द्धमानसंवेगो जीवाजीवसूक्ष्मबादरादिभेदपरिज्ञानवान् तत एवास्थिमज्जप्रेमानुरागरक्तचित्तो देशविरतिं गृहीत्वा पालयति, सम्यक्त्वसहितव्रतग्रहोत्तरमभङ्गरङ्गश्चोभयकालमावश्यकं कुरुते अतएव च संयमं जानीते,उक्तं चानुयोगद्वारसूत्रे-"समणेण सावएग य अवस्स कायवयं हवइ जम्हा। अंतो अहोणिसस्स य तम्हा आवस्सयं णाम॥" दशवैकालिके च-"जो जीवेवि वियाणाइ,अजीवे वि बियाणइ । जीवाजीवे वियाणतो, सोहुणाहीअ संजमं"एनमेवोद्दिश्य-"से जहाणामये समणोवासगा भवंति"। 'अभिगयजीवा जीवा' इत्यादि सूत्रं प्रवर्त्तते,अयमेव शुद्धजिनभक्तिमान् उचितं संयममाद्रियते, हिंसां परिहृत्य जिनविरहे जिनप्रतिमा पूजयति,संयमज्ञो ह्यसौ पट्कायहिंसा परिहरति, अतएवोक्तं महानिशीथे-"अकसिण पवत्तगाणं, विरयाविरयाण एस खलु जुत्तो।जे कसिणसंयमविऊ पुप्फाईअंन कप्पए तेसिं"। आवश्यकनियुक्तावपि-" जे कसिणसंयमविपुप्फाइअंण इच्छंत्ति” इत्यत्र साधुश्रावकयोईयोरविशेषेण कृत्स्नसंयमजलं पुष्पादिपरिहारेण पूजाधिकारितावच्छेदकमुक्तं, तत्रैकतरपक्षपातो न श्रेयान् , किं चात्र कारणमिति विचारणीयं, यदिन्द्राभिषेक