________________
प्रतिमा
शतकम्. ॥२७९॥
हिंसांशो यदि दोषकृत्तव जड ! द्रव्यस्तवे केन तन्मित्रत्वं यदि दर्शनेन किमुतद्भोगादिकालेऽपि न । | भक्त्या चेन्ननु सापि का यदि मतो रागो भवाङ्गं तदा हिंसायामपि शस्ततानुसदृशीत्यत्रोत्तरं मृग्यते ॥९२॥ व्याख्या- ' हिंसांश ' इति - हे जड, ! यदि द्रव्यस्तवे हिंसांशो दोषकृत् मिश्रत्वकृत् तदा केन सन्मिश्रत्वं भवेत् ? न तात्र देशसंयमेन चतुर्थगुणस्थाने गतेः, यदि च दर्शनेन सम्यक्त्वेन तदा भोगादिकालेऽपि तन्मत्वं किं न स्यात् ? चेद्यदि भक्त्या मिश्रत्वं त्वयोच्यते, तर्हि सापि भक्तिरपि च का ? यदि भक्ती रागो भणतः, तदा भवानं रागद्वेषयोरेव संसारमूलत्वात्, तदा द्वाभ्यां संसारान्तर्गताभ्यामधर्मपक्ष एवोत्कटः स्यादिति को मिश्रावकाशः ?, प्रशस्तरागत्वाद्, भक्तिर्न भवाङ्गमिति चेत्; तर्हि द्रव्यस्तवानुगता हिंसायामपि शस्तता सदृशी, अत्र तब किमुत्तरमिति मृग्यते ? अत्र च सम्यगुत्तरं वर्षसहस्रेणापि न परेण दातुं शक्यमिति मोक्षार्थिभिरस्मदुक्त एव पन्थाः श्रद्धेयः, एतेन षट्पुरुषी प्रदर्शनेन श्रमणोपासकाणां न द्रव्यस्तवाधिकारः । इति कापुरुषस्य पाशस्य मतं निरस्तं । एवं हि तत् सर्वतोविरतः १ अविरतः २ विरताविरतः ३ सर्वतोविरताविरतः ४ श्रमणोपासको देशविरतः ५ सर्वत्रिरतश्चेति ६ तावत् षट् पुरुषा भवन्ति, तत्र सर्वतोऽविरतः स उच्यते-यः कुगुरुकुदेवकुधर्मश्रद्धावान् सम्यक्त्वलेशेनाप्यस्पृष्टमनाः, यमुद्दिश्य 'इह खलु पाईणंवा ४ संतेगइआ मणुआ भवंति तं ० - महिच्छा महारंभा' इत्यादि सूत्रं प्रवृत्तं १, अविरतस्तु स उच्यते - यः सम्यक्त्वालङ्कृतोऽपि मूलोत्तरभेदभिन्नां विरतिं पालयितुमसमर्थो जिनप्रतिमामुनिवैयानुत्यकरणतदाशातनापरिहारादिना भूयः प्रकटितभक्तिरागः २, विरताविरतश्च स उच्यते यः पूर्णसम्यक्त्वो भाववानपि
स्वोपज्ञ वृत्तिः
श्लो. ९२
||२७९॥