________________
दृत्तिः
प्रतिमा
सिद्धान्ते परिभाषितो हि गृहिणां मिश्रत्वपक्षस्ततो बन्धानौपयिको विरत्यविरतिस्थानान्वयोत्प्रेक्षया। | स्त्रोपज्ञ शतकम्।
अन्तर्भावित एव सोऽपिपुरतो धर्मे फलापेक्षया पूजापौषधतुल्यताऽस्य किमु न व्यक्ता विशेषेक्षिणाम्।९१॥ |॥२७॥
व्याख्या-'सिद्धान्त ' इति-सिद्धान्ते मूत्रकृताख्ये हि निश्चितं ततो मिश्रत्वपक्षो बन्धानौपयिका बन्धाननुगुणः विरत्यविरतिस्थानयोर्योऽन्वयोऽनुगमस्तदपेक्षया स्वरूपमात्रेणेति यावत् परिभाषितः सङ्केतितः सोऽपि परिभाषितमिअपक्षोऽपि पुरतोऽग्रे फलापेक्षया धर्मेन्तर्भावितः, ततोऽस्य गृहिणः विशेषेक्षिणां विशेषदर्शिनां पूजापौषधयोस्तुल्यता किमु न व्यक्ता ? अपितुव्यक्ता, वागव्यवहारतो मित्रपक्षस्य निश्चयतश्च धर्मत्वस्य मूत्रकृते हि पक्षत्रयव्याख्यानावसरे-" अदुत्तरं च णं पुरिसविजयंत्रिभंगमाइक्खिस्सामि, इह खलु नाणापमाणं नाणाछंदाणं नागासीलाणं नाणादिट्ठीणं नाणारूईणं नाणारंभाणं नाणाज्झवसायसंजुत्ताणं नाणाविहपावसुअज्झयणं एवं भवइ, तं० भोमं उप्पायं " इत्यादिना पापश्रुताध्ययनेनान्नाद्यर्थ तत्मयोगेग वा मुरकिल्विपादिभावनयातल्लोकोत्पादेन ततश्रुतयैडमूकादिभावोत्पादेन गृहिणां चात्मस्वजनाद्यर्थ चतुर्दशभिरसदनु
नैस्तथाहि-कश्चिदकार्याध्यवसायेनानुगच्छतीत्यनुगाको भवति तं गच्छन्तमनुगच्छत्तीत्यर्थः १, अथवा तस्यापकारावसरापेयुपचारको भवति २, अथवा तस्य प्रतिषधिको भवति प्रतिपथं संमुखीनमागच्छति ३, अथवा स्वजनायर्थ सन्धिच्छेदको भवति खात्रखननादिकर्ता भवतीत्यर्थः ४, अथवा घुघुरादिना ग्रन्धिच्छेदकमा प्रतिपद्यते ५,अथवौरभैर्मेपैश्चरतीत्यौरभ्रिकः६, अथवा १ द्वि० श्रुत० २ अध्ययने ।
२७॥