SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ र तकम सर्वाङ्गीणमिवाऽनुभवति, तन्मयीभावमिवापद्यते; तेनं च सर्वकल्याणसिद्धिः। तदाह-"अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्व स्वापेक्ष तो मुनीन्द्र इति । हृदयास्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः॥१॥ चिन्तामणिः परोऽसौ, तेनेयं भवति स्म शमरसापतिः।। वृत्तिः सैवेह योगिमाता निर्वाणफलप्रदा मोक्ता"॥२॥इति तत् कथं निक्षेपत्रयादरं विना भावनिक्षेपादरः, भावोल्लासस्य तदधीनत्वात् । न श्लो० २ च नैसगिक एव भावोल्लास इत्येकान्तोऽस्ति जैनमते, तथा सति सर्वव्यवहारोच्छेदप्रसङ्गादिति स्मर्तव्यम् । अत्र निरुक्तविशेषणविशिष्टेषु लुम्पकेषु निरुक्तविशेषण विशिष्टान्धरूपोत्प्रेक्षा कल्पितोपमानमादाय उपमा वेति यथौचित्येन योजनीयं तत्तदलङ्कारग्र| न्थनिपुणैः । स्यादेतत्-भावाऽहद्दर्शनं यथा भव्यानां स्वगतफलं प्रति अव्यभिचारि तथा न निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति; मैवम् , स्वगतफले स्वव्यतिरिक्तभावनिक्षेपस्यापि अव्यभिचारित्वाऽभावात् । न हि भावान्तं दृष्ट्वाऽभव्या भव्या वा प्रतिबुध्यन्त इति, स्वगतभावोल्लासनिमित्तभावस्तु निक्षेपचतुष्टयेऽपि तुल्य इति । एतेन स्वगताऽध्यात्मोपनायकतागुणेन वन्द्यत्वमपि चतुष्टयविशिष्टमित्युक्तं भवति । शिरश्चरणसंयोगरूपं हि वन्दनं भावभगवतोऽपि शरीरे एव सम्भवति। ननु भावभगवति अरूपे आकाश इव तदसम्भवी, भावसम्बन्धाच्छरीरसम्बद्धं वन्दनं भावस्यैवायातीति । तत एव नामादिसम्बद्धमपि भावस्य किं न प्राप्नोति ?, इति परिभावय । कश्चिदाह जमतिव्युग्राहितः किमेताभियुक्तिभिः ।। महानिशीथे एव भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तं निक्षेपत्रयस्य चाऽकिश्चित्करत्वम् , इति भावनिक्षेपमेव पुरस्कुर्वतां नः क इवाऽपराधः । तथा चोक्तं तत्र पश्चमाऽध्ययने-“से भयवं! किं तित्थयरसंतियं आणं नाइक्कमिज्जा उयाहु आयरियसं १ एतन्नास्ति-पुस्तकान्तरे. २ जगति-पुस्तकान्तरे. Amawn mind ॥ ५॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy