________________
श्लो. ८५
प्रतिमा | हिंसा सद्व्यवहारतो विधिकृतः श्राद्धस्य साधोश्चनो सा लोकव्यवहारतस्तु विदिताबाधाकरी नोभयोः। स्वोपज्ञ शतकम्
इच्छा कल्पनयाभ्युपेत्य विहिते तथ्या तदुत्पादनोत्पत्तिभ्यांतु भिदान कापि नियतव्यापारके कर्मणि ५॥ त्तिः, ॥२६॥
व्याख्या-हिंसा' इति-विधिकृतः श्राद्धस्य साधोश्च सद्व्यवहारतः सिद्धान्तव्युत्पन्नजमुनहारतः हिंसा नो नैव भवति, प्रमत्तयोगेन प्राणव्यपरोपणस्यैव तन्मते हिंसात्वात् , स्वगुणस्थानोचितयतनया प्रमादपरिहार चायो-। रविशेषात. उपरितनेनाधस्तनाप्रमादपर्यवसायकतायाश्चातिप्रसञ्जकत्वात्, अधिकारभेदेन न्यूनाधिकमावस्याप्यमुक्तिसंभवाड, अन्यथा संपूर्णाचारश्चतुर्दशोपकरणधरः स्थविरकल्पिको जिनकल्पिकमपेक्ष्य प्रमत्तो न्यूनश्च स्यात, नचैवमस्ति, रत्नरत्नाकरन द्वयोस्तुल्यताप्रतिपादनात , तस्मात् स्वविषये गृहिणः साधोश्च धर्मकर्मणि हिंसा नास्त्येवेति स्थितं । लोकव्यवहारतस्तु बाबलोकव्यवहारापेक्षया सा परप्राणव्यपरोपणरूपा हिसा उभयोगृहिसाध्वोर्वाधाकरी न मिश्रपक्षप्रवेशकरी न व्यधिकरण (ताया मिश्रणासंभवात, स्वानुकूलव्यापारसंबन्धेन तस्याः सामानाधिकरण्यस्य च योगमादायाकेवलिनमतिप्रसङ्गात,ताशप्रमादरूपव्यापारसंबन्धेन सामानाधिकरण्यस्य चाप्रमत्तभावस्थले वक्तुमशक्यत्वात् सद्व्यवहारपर्यवसानाच्चेति न किञ्चिदेतत । नन प्राण्यपमर्दस्तावद्धर्मकर्मण्यपि हिंसैव, गृही तु तां करोति, साधोस्तु सा कथञ्चिद्भवतीत्यस्ति विशेष इति चेदत्राह-इच्छाकल्पनया स्वरसपूर्वयेच्छया अभ्युपेत्य विहिने नियतव्यापारकेवर्जनीयहिंसासंबन्धेकर्मणि तदुत्पादनोत्पत्तिभ्यां तु भिदा कापि तथ्या न अपि तु स्वकपोलकल्पनया मुग्धमनोविनोदमात्रमितिभावः, तथाहि हिसानुषक्तधर्मव्यापारे साध्यत्वाख्यविषयतया हिंसाविषयक