SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम. ॥२५५ दृत्तिः -७८ चैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्तत्किं तन्ननु दुर्मतिग्रहवशाद् दुष्टं श्रयामीति चेत् ।। स्वोपज्ञ साम्राज्ये घटमानमेतदखिलं चारित्रभाजां भवेत् पार्श्वस्थस्त्वसतीसतीचरितवन्नो वक्तुमेतत्प्रभुः॥७७॥ श्लो.७७ व्याख्या-चैत्य' इति-अथ यद् यस्मात्कारणात्तीर्थान्तरीयस्य ग्रहः परिग्रहस्तस्मादनायतनत्वमुक्तं-! " णो कप्पइ अण्णउत्थिय परिग्गहिआई अरहंतचेइयाई वा" । इत्यादिना तत्तहि नन्वित्याक्षेपे दुर्मतीनां दुर्बुद्ध नां पार्श्वस्थादीनां यो ग्रहः परिग्रहस्तदशाद् दुष्ट दोषवत् सच्चैत्यं किं श्रयामि ?, अन्यतीर्थिकपरिग्रहवद् भ्रष्टाचारपरिग्रहस्याप्यनायतनत्वहेतुखादिति भावः, इति चेदेतदखिलं त्वयोच्यमानं चारित्रभाजां साम्राज्ये सम्राभावे प्रवर्त्तमाने घटमानं युक्तं भवेत् , तदोद्यतविहारिभिनिर्जितसकलभयैराचार्यादिधीरपुरुषैः शुद्धाशुद्धविवके क्रियमाणे विधिगुणपक्षपातस्य सर्वेषां सुकरत्वेन भावोल्लासस्यावश्यकत्वादाह-"जो उत्तमहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियम्मि जयंते तयणुचरा के णु सीअंति" इत्यादि, पार्श्वस्थस्तु भवान् पार्श्वस्थमध्यवर्ती एतद् निर्दिष्टं असती सतीचरितवत् सतीचरित्रं नो वक्तुं प्रभुः, अशक्यस्य स्वकृतिसाध्यखोक्तावुपहसनीयत्वप्रसङ्गात् , प्रायस्तुल्यत्वे एकतरपक्षपातेनेतरभक्तिसङ्कोचप्रद्वेषादिना महापातकप्रसङ्गाच्च ॥ ७७ ॥ उपसंहरतिसर्वासु प्रतिमासु नाग्रहकृतं वैषम्यमीक्षामहे पूर्वाचार्यपरंपरागतगिरा शास्त्रीययुक्त्यापि च । इत्थं चाविधिदोषतापदलने शक्ता विधातुं विधिखैरोज्जागररागसागरविधुज्योत्स्नेव भक्तिप्रथा ॥७८ ॥२५॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy