________________
प्रतिमा शतकम. ॥२५५
दृत्तिः
-७८
चैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्तत्किं तन्ननु दुर्मतिग्रहवशाद् दुष्टं श्रयामीति चेत् ।।
स्वोपज्ञ साम्राज्ये घटमानमेतदखिलं चारित्रभाजां भवेत् पार्श्वस्थस्त्वसतीसतीचरितवन्नो वक्तुमेतत्प्रभुः॥७७॥ श्लो.७७
व्याख्या-चैत्य' इति-अथ यद् यस्मात्कारणात्तीर्थान्तरीयस्य ग्रहः परिग्रहस्तस्मादनायतनत्वमुक्तं-! " णो कप्पइ अण्णउत्थिय परिग्गहिआई अरहंतचेइयाई वा" । इत्यादिना तत्तहि नन्वित्याक्षेपे दुर्मतीनां दुर्बुद्ध नां पार्श्वस्थादीनां यो ग्रहः परिग्रहस्तदशाद् दुष्ट दोषवत् सच्चैत्यं किं श्रयामि ?, अन्यतीर्थिकपरिग्रहवद् भ्रष्टाचारपरिग्रहस्याप्यनायतनत्वहेतुखादिति भावः, इति चेदेतदखिलं त्वयोच्यमानं चारित्रभाजां साम्राज्ये सम्राभावे प्रवर्त्तमाने घटमानं युक्तं भवेत् , तदोद्यतविहारिभिनिर्जितसकलभयैराचार्यादिधीरपुरुषैः शुद्धाशुद्धविवके क्रियमाणे विधिगुणपक्षपातस्य सर्वेषां सुकरत्वेन भावोल्लासस्यावश्यकत्वादाह-"जो उत्तमहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियम्मि जयंते तयणुचरा के णु सीअंति" इत्यादि, पार्श्वस्थस्तु भवान् पार्श्वस्थमध्यवर्ती एतद् निर्दिष्टं असती सतीचरितवत् सतीचरित्रं नो वक्तुं प्रभुः, अशक्यस्य स्वकृतिसाध्यखोक्तावुपहसनीयत्वप्रसङ्गात् , प्रायस्तुल्यत्वे एकतरपक्षपातेनेतरभक्तिसङ्कोचप्रद्वेषादिना महापातकप्रसङ्गाच्च ॥ ७७ ॥
उपसंहरतिसर्वासु प्रतिमासु नाग्रहकृतं वैषम्यमीक्षामहे पूर्वाचार्यपरंपरागतगिरा शास्त्रीययुक्त्यापि च । इत्थं चाविधिदोषतापदलने शक्ता विधातुं विधिखैरोज्जागररागसागरविधुज्योत्स्नेव भक्तिप्रथा ॥७८ ॥२५॥