SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् स्वोपन वचिः श्लो०१ प्रीत्या स्वरसेन, न तु बलाभियोगादिना । एतेन सिद्धान्त-प्रतिमाप्रामाण्याऽभ्युपगमयोनान्तरीयकत्वात् स्वरसतः प्रतिमाप्रामाण्याभ्युपगन्ता एव शिष्टो मान्य इत्यावेदितं भवति । तदनभ्युपगन्ता च सिद्धान्ताऽनभिज्ञ इति । पुनः कीदृशी?स्फूर्तिमती स्फूर्तिः–प्रतिक्षणप्रवर्धमानकान्तिः सन्निहितमातिहार्यत्वं वा, तद्वती; एतेन तदाराधकानामेव बुद्धिस्फूर्तिर्भवति नान्यस्येति सूच्यते । पुनः कीदृशी ?–अनालोकिता-सादरम् अवीक्षितेत्यर्थः, अनालोकितपदस्य सादरमनालोकितत्वेऽर्था|न्तरसङ्क्रमितवाच्यत्वाद्, अन्यथा चक्षुष्मतः पुरःस्थितवस्तुनोऽनालोकितत्वाऽनुपपत्तेः । कैः? विस्फुरन्मोहोन्मादधनप्रमादमदिरामत्तैः –विस्फुरन्-विविधंपरिणमन् , यो मोहोन्मादो घनप्रमादश्च, तावेव ये मदिरे, ताभ्यां ये मत्तास्तैः। नच प्रमादस्य मोहेनैव गता र्थत्वाद आधिक्यम्, अनाभोगमतिभ्रंशादिरूपस्य तैस्य ग्रहणात् । न चान्वयपरिसमाप्तौ अस्य विशेषस्योपादानात् समाप्तपुनरात्तदोषदुष्टत्वमत्रोति शङ्कनीयम् ; सर्वोत्कृष्टत्वेन सर्वादरणीयत्वे लब्धे यदि सर्वैरादियते, कथं न लुम्पाकैः ? इत्याशङ्कानिवारणायैतद्विशेषणम् । ते हि मोह-प्रमादोन्मत्ताः, इति तदनादरेऽपि न सर्वप्रेक्षावदादरणीयत्वक्षतिः, इत्युक्तदोषाभावात् , प्रकृताऽनुपपादकविशेषणस्य पुनरुपादाने एव तद्दोषव्यवस्थितेः ; अत एव 'दीधितिचिन्तामणिं तनुते तार्किकशिरोमणिः श्रीमान्' इत्यत्र श्रीमचविशेषणे न समाप्तपुनरातत्वं, श्रीः-विस्तराऽनुगुणज्ञानसमृद्धिरित्यस्य प्रकृतोपपादकत्वाद्, इति समाहितं तान्त्रिकैः। 'या सा' इत्यध्याहृत्य वाक्यं, यैः साऽवीक्षिता ते मन्दभाग्या इति ध्वनितात्पर्य तु नाऽनुपपत्तिलेशोऽपीति ध्येयम् ॥ १॥ १ भ्युपगतैव-इत्यपि. २ नान्य इत्यपि. ३ प्रमादस्य. ४ विशेषणस्य. ५ समाप्तपुनरात्तत्वरूपस्य. ६ दीधितिमधिचिंतामणि-इत्यपि पुस्तकांतरे. ७ ध्वनितार्थ. MAamrawran.mmuniwand wwwwwwwwww Nirwww ॥ ३॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy