________________
प्रतिमा
शतकम्. ॥ २ ॥
व्याख्यानेऽस्मिन् गिरां देवि !, विघ्नवृन्दमपाकुरु । व्याख्येयमङ्गलैरेव, मङ्गलान्यत्र जाग्रति ॥ ४ ॥
तत्रेदं प्रतिमाविषयाशङ्कानिराकरणस्य चिकीर्षितत्वात् प्रतिमास्तुतिरूपम् इष्टबीजप्रणिधान पुरस्सरम् आद्यं पद्यमाह - ऐन्द्रतिऐन्द्रश्रेणिनता प्रतापभवनं भव्याङ्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता । मूर्त्तिः स्फूर्त्तिमती सदा विजयते जैनेश्वरी विस्फुरन् - मोहोन्मादधनप्रमादमदिरामत्तैरनालोकिता ॥१॥
स्वोपज्ञ वृत्तिः १ श्लो० १
जैनेश्वरी मूर्त्तिः सदा विजयते इत्यन्वयः । जिनेश्वराणामियं जैनेश्वरी, मूर्त्तिः - प्रतिमा, सदा — व्यक्त्या प्रवाहतश्च निरन्तरं, विजयते— सर्वोत्कर्षेण वर्तते । अत्र जयतेरर्थ उत्कर्षः, “ पराभवे तथोत्कर्षे जयत्यन्ते स्वकर्मकः " इत्याख्यातचन्द्रिकावचनात् । सर्वाधिकत्वं वेरुपसर्गस्येति बोध्यम् । मूर्त्तिः कीदृशी ? – ऐन्द्रश्रेणिनता – इन्द्राणामियम् ऐन्द्री, सा चासौ श्रेणिचेति कर्मधारयः, तया नता—नमिकमींकृताः एतेन एतदपलापकारिणाम् ऐन्द्रः शापो ध्रुव इति व्यज्यते । पुनः कीदृशी ? - प्रतापभवनम् — प्रतापस्य — कोश- दण्डजस्य तेजसो भवनं - गृहम् । उक्ततेजः स्थाप्यगतं स्थापनायामुपचर्य व्याख्येयम्, - तेन एतदपलापकारिणो भगवत्प्रतापदहनेनैवोपहता भविष्यन्तीति व्यज्यते । पुनः कीदृशी ? - भव्याङ्गिनेत्रामृतम् — भव्याङ्गिनां आसन्नसिद्धिकप्राणिनाम् नेत्रयोर्नयनयोरमृतं - पीयूषम् ; सकलनेत्ररोगाऽपनयनात् परमानन्दजननाच्च । एतेन एतद्दर्शनाद् येषां नयनयोर्नानन्दस्तेऽभव्या दूरभव्या वेत्यभिव्यज्यते । पुनः कीदृशी ? – प्रमाणीकृता - प्रमाणत्वेनाऽभ्युपगता । कैः ? – सिद्धान्तोपनिषद्विचारचतुरैः – सिद्धान्तानाम् उपनिषद् - रहस्यं तद्विचारे ये चतुरास्तैः । कया ? — ॥ २ ॥