________________
-प्रतिमा शतकम्
॥ॐ नमोऽर्हद्भ्यः ॥ महामहोपाध्याय-न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयविरचितम्
स्वोपज्ञव्याख्यासंवलितम्प्रतिमाशतकम्
Wwwwwwwwwwwwwwws
॥ अहं नमः, ऐ नमः॥ ऐन्द्रश्रेणिप्रणत-श्रीवीरवचोऽनुसारियुक्तिभृतः। प्रतिमाशतकग्रन्थः, प्रथयतु पुण्यानि भविकानाम् ॥१॥ पूर्व न्यायविशारदत्वविरुदं काश्यां प्रदचं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम्। शिष्यप्रार्थनया नयादिविजयमाज्ञोचमानां शिशुः, सोऽयं ग्रन्थमिमं 'यशोविजय' इत्याख्याभृदाख्यातवान् ॥२॥ अस्य प्रतिमाविषया-ऽऽशङ्कापकापहारानिपुणस्य, संविग्नसमुदयस्य, प्रार्थनया तन्यते वृत्तिः ॥३॥