SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् वृत्तिः ॥२४४ आत्मारामे शुक्लाश्यामे हद्विश्रामे विश्रान्ताव्यद्वन्धाः श्रेयः सन्धाश्चित्संबन्धादभ्रान्ताः। स्त्रोपन अर्हद्भक्ता युक्तो रक्ता विद्यासता येऽधीता निष्ठा तेषामुच्चरेषा ताल्लेखा निर्णीता ॥ २॥ ॥ ६९ ॥ लो.७० “सर्वमपिलुम्पकमतंनिराकृतम्" वृषोदनुसारिणो मतमुपन्यस्य दूषयतिवन्यास्तु प्रतिमा तथापि विधिनासाकारितामृग्यतेस प्रायो विरलस्तथाच सकलंस्यादिन्द्रजालोपमम् ।। हन्तैवं यतिधर्मपौषधमुखश्राद्धक्रियादेविधेयॊर्लभ्येन तदस्ति किंतवन यत् स्यादिन्द्रजालोपमम् ॥७०॥ व्याख्या-'वन्द्यास्तु' इत्यादिना-ननु प्रतिमा बन्यास्तु उक्ता क्षरशतैस्तथा व्यवस्थितेस्तथापि सा विधिना कारिता मृग्यते, सम्यग्भावितानामेव प्रतिमानां भावग्रामत्वेनाभिधानाव, स विधिः प्रायो विरल, ऐदंयुगीनानां प्रायोऽविधिप्रवृत्तत्वस्य प्रत्यक्षसिद्धत्वात् , तथा च; सकलं प्रतिमागतं पूनाप्रतिष्ठावन्दनादिकं इन्द्रजालोपमं स्यात् , महतोऽप्याडंबरस्यासत्यालंबनत्वात् , हंतेति प्रत्यवधारणे, एवं प्रतिमापदेव यतिधर्मश्चारित्राचारः,पौषधः श्राद्धानां पदिनानुष्ठानं, तन्मुखा तदादियो श्राद्धक्रिया तदादियों विधिः आदिनाऽपुनर्बन्धकाधुचिताचारपरिग्रहः, तस्य दुष्षमायां दुर्लभत्वेन तत्किमस्ति यत्तवेन्द्रजालोपमं न स्यात् , न्यायस्य समानत्वात,नचेयं प्रतिबन्दिः सा चानुत्तरमिति वाच्यं, तत्समांधानेन समानसौलभ्यस्य विवक्षितत्वात् ॥७०|| १ धर्मसागरानुसारिणोमतम् । २४४॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy