________________
प्रतिमा
शतकम्.
॥२४३॥
चूर्णिवृत्ति सर्वोत्तमप्रकरणपरिग्रहः सन्न्यायेन सद्युतया च समर्थिता निष्कलङ्कनिश्चयविषयीकृता भगवन्मूर्त्तिः सतां शिष्टानां प्रमाणमाराध्यत्वादिना, युक्तिस्तु दुर्धियां दुष्टबुद्धीनां अन्धपरंपराश्रयणीयेत्यभ्युपगमरूपा तथा हता सती माजाघटीत् मा सुतरां
युक्तिनिरास परंपरायां युक्तिग्रहणस्यानुपपन्नत्वात् एतद्दर्शनेन वञ्चिता दृगपि दृष्टिरपि किं शून्येव न भ्राम्यति ? अपि तु भ्राम्यति । तिलकयुत ललाटभ्राजमानाः स्वभाग्याङकुरमिव समुदीत दर्शयन्ते जनानां । स्फुरदगुरुसुमाली सौरभोद्वारसाराः कृतजिनवरपूजादेवरूपा महेभ्याः १ आनन्दमान्तरमुदारमुदाहरन्ती रोमाञ्चिते वपुषि सस्पृहमुल्लसन्ती । पुंसां प्रकाशयति पुण्यरमासमाधिसौभाग्यमर्चनकृतां निभृता हव २ स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं मृतसुकृतमिव श्रीः शौच संस्कारहीनं । अकलितभजनानां वल्कलान्येव वस्त्राण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः ३ अकृताहत्पूजस्य तस्करस्येव लोचने । शोचनेनैव संस्पृष्ठे गुप्तपातकशङ्कि ४ ।। ६८ ।।
प्राप्या नूनमुपक्रिया प्रतिमया नो कापि पूजा कृता चैतन्येन विहीनया तत इयं व्यर्थेति मिथ्या मतिः । पूजा भावत एव देवमणिवत्ता पूजिता शर्मदेत्येतत्तन्मतगर्वपर्वतभिदावज्रं बुधानां वचः ॥ ६९ ॥
व्याख्या- ' प्राप्यनृनमुपक्रिया' इत्यादि वृत्तमवगतार्थं ।
एवं युक्तया शंभोभक्त्या मूत्रव्यत्तया लुंपाकाश्चित्तोद्रिक्ता मायासिक्ताः क्लुप्सारिक्ताः किंपाकाः । एतत्पुण्यं शिष्टैर्गुण्यं निवंगुण्यं सद्धाचैस्तत्वं बोध्यं नीत्या शोध्यं नैवायोध्यं निष्क्रोधैः ॥ १ ॥
स्वोपज्ञ वृत्तिः
श्ला. ६८
-६९
||॥२४३॥