SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् ॥१७॥ विधत्ते, यशोधर इव पिष्टमयकुक्कटन, तथा मुक्त्यर्थमज्ञानावृतवेतसः पश्चामितपः साधनादिषु पाण्युपमर्दकादिषु प्रवर्त्तमानाः क-| स्वोपड़ दिदते, यदि वा जातिमरणयोविमोचनाय हिंसादिकाः कुर्वते, “जाइजरामरणभोप्रणाए" ति पाठान्तरं तत्र भोजनार्थ कृ. वृत्तिः ब्यादिकर्मसु प्रवर्गमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियव्यापचये व्यामियन्ते इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरार्थमारंभमासेवन्ते, तथाहि-व्याधियेदनार्ता लावकपिशितमदिराद्यासेवन्ते, तथा-वनस्पतिमूलखपत्रनिर्यासादिसिद्धशतपाकादितलार्यमग्न्यादिसमारंभेण पाप कुर्वन्ति स्वतः कारयन्त्यन्यः कुर्वतोऽन्यान् समनुजानते इत्यवमतीतानागतकालयोरपि मनोवाक्काययोगः कर्मादानं विदधतीत्यायोजनीयमित्यादि, अत्र हि जातिमरणमोचनार्थ कुमार्गोपदिष्टमेव निवृतं न जिनपूजादीति किं दुर्व्यसनं तब तदाशातनायाः ? अन्यथा मुक्त्यर्थमनशनलोचाद्यपि हिंसा स्यादनुवन्धतोऽहिंसात्वं तु तुल्यमित्यानेडितमेव, एतेन-“ से अप्पवले से णाइवले से मित्तबले से देवबले से रायबले से चोरबले से अतिहिबले से फिविणबले से समणबले इच्चेतेहिं विरूवरूवहिं कहिं दंडसमादाणं संपेहाए भया कज्जति पावमोक्खोत्ति भणमाणे अदुवा आसंसाए तं परिणाय मेहावी व सयं एतेहिं जेहि दंड समारभेजाणेवण्णेहिं एतेहिं कज्जेहिं दडं समारंभाविज्जा नेवनेहि एतेहिं कजेहिं दंड समारभंत समणुज्जाणाति" इति लोकविजयद्वितीयोदेश कवचनमपि व्याख्यातं । देववलेन पापमोक्षालंबनेन वा देवपूजाया दण्डसमादानत्वाभावादन्यथानशनादेरपि तथात्वापत्तेः । इह परलोकविरुद्धान्येव च दण्डसमादानानीह गृहीतानीति नैतत्सूत्रवि. गीतत्वं देवतार्चनस्य । तथा च वृधि:-' से अपबले' आत्मनो बलं शक्त्युपचय आत्मबलं तन्मे भवतीति कृत्वा नानाविधैरुपायैरात्मतुष्टये तास्ताः क्रिया ऐहिकामुष्मिकोपघातकारिणीर्विधने, तथाहि-मांसेन पुष्यते मांसं' इति कृत्वा पञ्चेन्द्रियघातादावपि ॥१७४।। Wwwww wwwwwamana
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy