SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् | ३।१७५।।। प्रवर्त्तनऽपराश्चालुंपनादिकाः सूत्रेणैवाभिहिताः, एवं तज्जातिबलं स्वजनबलं मे भावीति । तथा तन्मित्रवलं मे भविष्यति येनाहभाप सुखेनैव निस्तरिष्यामि, तत्प्रेत्य वलं मे भविष्यति वस्त्यादिकमुपहन्ति, तथा देववलं भावीति पचनपाचनादिकाः क्रिया विधत्त, राजवलं मे भविष्यति राजानमुपचरति चीरा भागं दास्यन्ति चौरानुपचरांते, अतिथिवलं वा मे भविष्यति अतिथिसुपचरति, अतिथिहिं निःस्पृहेऽभिधीयते इत्युक्तं च-" तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ” ॥ इति । एतदुक्तं भवति तद्रलार्थमपि प्राणिषु दण्डो न निःक्षेप्तव्यः एवं कृपणश्रमणार्थमपीत्येवं पूर्वोक्लैर्निरुपमरूपैर्नानाप्रकारैः पिण्डदानादिभिः कार्येर्दण्डसमादानमिति । दण्डयंते व्यापाद्यन्ते प्राणिनो येन स दण्डः तस्य सम्यगादानं ग्रहणं समादानं तदात्मबलादिकं मम नाभविष्ययदहमेतन्ना करिष्यमित्येवं संप्रेक्षया पर्यालोचनया एवं संप्रक्ष्य वा भयात् क्रियते एवं तावदिह भवमाश्रित्य दण्डसमादानकारणमुपन्यस्तं, आम्मुष्मिकार्थमपि परमार्थ मजानानैर्दण्डसमादानं क्रियत इति दर्शयति-' पावमोक्खो चि' - इत्यादि, पातयति पाशयति वा पापं तस्मात् मोक्षः इति हेतौ यस्मान्मम भविष्यतीति मन्यमानो दण्डसमादानाय प्रवर्त्तते इति । तथाहि हुतभुजि पड्जीवोपघातादिकारिणि शस्त्रे नानाविधोपायप्राण्युपत्रातकृतपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शतव्युग्राहितमतयो जुद्दति, तथा पितृपिण्डदानादौ वस्त्रादि मांसोपसंस्कृतभोजनादि द्विजातिभ्य उपकल्पयन्ति, तद्भक्तशेषानुज्ञातं स्वतो भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणा अनेकभवशतकोटीषु दुर्मोचमघमेवोपाददते किञ्च ' अदुवा' इति पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तं, अथवा शंसनमाशंसा अमाप्तमापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते । तथाहि - १ ।। १७५ ॥ स्वापक वृत्तिः श्ला. ६२
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy