________________
प्रतिमा शतकम्. ॥ १७२ ॥
वक्षात एव तदपाठ इत्यत आह-या खलु जैनमार्गविदिता हिंसा सा (किं) प्रसङ्गोद्भवं दोषं निहन्तुं वारयितुं स्फुटं नामग्राई निषेध्या न स्यात् ? अपितु स्यादेव, किंवत् १, आधाकर्मिकवत्, ननु प्रतिलोममेतत् एवं सत्यर्थदण्डाधिकारे पूजार्थवधस्य धार्मि कस्येवापाठोपपत्तेरिति चेत्, सत्यं, तहिं भगवत्यादावधार्मिकस्येव तस्य स्फुटं निषेधौचित्यमन्यत्र प्रपञ्चेन निरूपितस्यैवात्रोपलक्षणत्वसंभवादित्यत्र तात्पर्यात्, नन्वेतदशिक्षितोपालभमात्रं - " तत्थ खलु भगवया परिण्णा पवेइया इमस्स चैव जीवियस्स परिवंदणमाणण अणाए, जाई मरणमोअणाए दुरकपडिघातहेडं ” इत्याचारे प्रथमाध्ययने ( द्वि० उ. ) जातिमरणमोचनार्थं प्राणातिपातस्य दर्शितत्वात्तस्यच कटुतरविपाको पदर्शनाज्जिनपूजादेरपि भवदभ्युपगमेन मुक्त्यर्थं प्रसिद्धेरर्थदण्डतया साक्षान्निषेधादिति चेन्न, एतद्द्व्याख्यापर्यालोचनायां त्वन्मनोरथस्य लेशेनाप्यसिद्धेः । तथाहि तत्र कर्मणि भगवता 'परिज्ञा ' ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च प्रवेदिता, अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवभूतेषु क्रियाविशेषेषु प्रवर्त्तत : इत्याह- इमस्सइत्यादि, तत्र जीवितमिति जीवत्यनेनायुष्कर्मणेति जीवितं प्राणधारणमेतच्च प्रतिप्राणिस्वसंविदितमिति कृत्वा प्रत्यक्षासन्नवाचिनेदमानिर्दिशति, शब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः एवकारोऽवधारणेऽस्यैव जीवितस्यार्थे परिफल्गुतरस्य तडिल्लताविलसितचञ्चलस्य बहुपायस्यादीर्घसुखार्थं क्रियासु प्रवर्त्तते । तथाहि - जीविष्याम्यहमरोगसुखेन भोगान् भोक्ष्ये, ततो व्याध्यपनयनार्थ स्नेहपानलावक पिचितभक्षणादिषु क्रियासु प्रवर्त्तते, तथाल्पस्य सुखस्य कृतेऽभिमानग्रहाकुलितचेता बहारंभपरिग्रहाद्वाशुभं कमार्दचे । उक्तंच - " द्वे वाससी प्रवरयोषिदपायशुद्धा शय्यासनं करिवरस्तुरगो रथो वा । कालेभिषग् नियमिताशनपानमा - श्राद्राज्ञः पराक्यमिव सर्वमवेहि सर्वे ।। तुष्टयर्थमन्नमिह यत्प्रणिधिप्रयोगः सन्त्रासदोषकलुषो नृपतिस्तु भुते । यन्निर्भयमशमसौ- ॥ १७२॥
स्वोपज्ञ वृत्तिः
श्लो. ६२