________________
प्रतिमा। नाभावशुद्धिमतः पूजायां कायवधासंभवस्यैव दर्शितखात् पूजापश्चाशकेऽपि कायवधात् कथं पूजा परिशुद्धा ?, इति प्रश्नोचरे- बोल शतकम. “ भण्णइ जिणपूयाए कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा" । इत्यत्र कथञ्चित्केनचि- वृत्तिः ॥१६८॥ पकारेण यतनाविशेषेण प्रवर्गमानस्य सर्वथापि न भवतीति प्रदर्शनार्थ कथश्चिद्रहणमिति तपस्विना स्वयमेव व्याख्यानात्-श्लो.६०
" देहादिणिमिचं पि हु जे कायवहम्भि तह पयस॒ति । जिणपूयाकायवहम्मितेसिमपरतणं मोहो" ॥ इति ग्रन्थेनाग्रे ग्रन्यकृतैवाधिकारिणो जिनपूजाकायवधमुपेत्य प्रवृचेर्दर्शिते तत्र हिंसास्वरूपस्य यतनयैव त्याजनाभिप्राया प्रमादयोगेनेत्यादिलक्षणा। सिद्धेः । न च पुण्यजनकाध्यवसायेन योगेन वाल्पस्यापि पापस्य बन्धसंभवः, अध्यवसायानां योगानां वा शुभाशुभकरूपाणामे
वोक्तत्वात्तृतीपराशेरागमेऽप्रसिद्धरेतचोपपादयिष्यत उपरिष्टात् । भाष्यसंमत्या भगवत्यां सुपात्रेऽशुद्धदानेऽल्पपापबहुतरनिर्जराभि-। धानं च, निर्जराविशेषमुपलक्षयति स च शुद्धदानफलावधिकापकर्षात्मकः, प्रकृते च चारित्रफलावधिकापकर्षात्मको दानादिच तुष्कफलसमशीलः, सोऽधिक्रियत इति कथङ्कारमशुद्धदानेन शुद्धपूजायां तुल्यत्वमुपनीयमानं तपखिभिश्चमत्कारसारं चेतो रचयितुं प्रत्यलं, अशुद्धदानं हि अतिथिसंविभागवतस्यातिचारभूतं, शुद्धपूजा च समग्रश्राद्धधर्मस्य तिलकीभूतोचरगुणरूपेति । तथा चाह वाचकचक्रवर्ती-" चैत्यायंतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपपदीपाद्या" इत्यादि । अथ शुद्धदानविधिरुत्सर्गोऽशुद्धदानविषिश्चापवादः, उत्सर्गापवादौ च स्वस्थाने द्वावपि बलवन्तावित्यपवादविधिविषयीभूताशुद्धदानतुल्यत्वं देवपूजायामुच्यमानं न दोषायेत्यभिप्रायः । तीशद्धपददानं कस्य विभीषिकाय ? स्वरूपतोऽशुद्धतायाः
॥१६॥ १ गाथा-४२. २ गा० ४५.
wwwwwwwwwww