________________
प्रतिमा
शतकम्. ॥ १६७॥
+
खननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । नचैतदागमानुपाति, यतो धर्मार्थवृत्तावप्यारंभ जानतस्याल्पस्य पापस्येष्टत्वात् कथमन्यथा भगवत्यामुक्तं " तहारूपं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफामुएणं अणेसणिज्जेणं असण ४ पडिलामेमाणे भंते ! किं कज्जइ ?, गो० ! अप्पे पावे कम्मे बहुतरिया से णिज्जरा कज्जइ " । तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चिचमतिपतिरपि कथं स्यात् ?, इत्यलं प्रसङ्गेनेति गाथार्थः । यतनया विहितस्य स्नानादेः शुभभावहेतुत्वं प्रागुक्तं । अथ यतनां स्नानगतां शुभभावहेतुतां च यतनाकृतां स्नानस्य दर्शयनाह - " भूमी पेहणजलछाणणाइ जयणाउ होइ पहाणाओ । एतो विसुद्धभावो अणुइवसिद्धोच्चियबुहाणं " ॥ व्याख्या - भूमेः प्रेक्षणं च स्नानभुवः प्राणिरक्षार्थं चक्षुषा निरीक्षण, जलछाणणं च पूतरकपरिहारार्थं नीरंगालनम् आदिः प्रमुखं यस्य व्यापार वृन्दस्य तद्भूमिप्रेक्षणजलछाणणादि, आदिशब्दान्मक्षिकारक्षणादिग्रहः । तत्किमित्याह - यतना प्रयत्नविशेषः, तुशब्दः पुनरर्थः, तद्भावना चैवं-स्नानादि यतनया गुणकरं भवति, यतना पुनर्भूमिप्रेक्षणजलछाणनादिः, भवति वर्तते, केत्याह-स्नानादावधिकृते देहशौचविलेपनजिनार्चनप्रभृतीनि च, इह च प्राकृते औकारश्रुतेरभावाद, ' ण्हाणाओ ' इत्येवं पठ्यते इति । एत्तोत्ति-इतः पुनर्यतनाविहितस्नानादे विशुद्धभावः शुभाध्यवसायोऽनुभवसिद्ध एव स्वसंवेदन प्रतिष्ठित एव, बुधानां बुद्धिमतां, अनेन च शुभभावहेतुत्वादित्यस्य पूर्वोक्तहेतोरसिद्धताशङ्का परिहृता । इति गाथार्थः । अत्र अभयदेवसूरिव्याख्याने धर्मार्थ प्रवृत्तावप्यारंभजनितदोषस्याल्पस्य यदिष्टत्वमुक्तं, तद्रन्थकर्तुः क स्वरससिद्धं ?, पोडशके, ' यतनातो नच हिंसा' इत्याद्येवाभिधानात्, यत
१ गाथा - ११ ।
१ ।। १६७/
| स्वोपज्ञ
वृत्तिः
श्लो. ६०