________________
शतकम्.
कीर्त्तना भाव इति, सन्तश्च ते गुणाश्व सद्गुणाः, अनेनासत्कीर्त्तनानिषेधमाह करणे च मृषावाद इति, सद्गुणानामुत्कीर्त्तना प्रतिमा उत्प्राबल्येन परया भक्त्या कीर्त्तना संशब्दना । यथा-" प्रकाशितं यथैकेन त्वया सम्यग् जगत्त्रयम् । समग्रैरपि नो नाथ ||१६|| परतीर्थाधिपैस्तथा ।। विद्योतयति वा लोकं यथैकोऽपि निशाकरः । समुद्गतः समनोऽपि किं तथा तारकागणः " ॥ इत्यादि लक्षणो भाव इति द्वारपरामर्शो भावस्तव इति गाथार्थः । इह चालितप्रतिष्ठितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च- “ कत्थइ पुच्छर सीसो, कहिं च पुट्ठा कर्हिति आयरिआ, ” इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासंभवः इत्यतस्तद्व्युदासार्थं तदनुवादपुरस्सरमाह - " दव्वथओ भावथओ दव्वथओ बहुगुणोचि बुद्धिसिया । अनिउणमइवयणमिणं, छज्जीवहियं जिणा विंति " ॥ व्याख्या - द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो बहुगुणः प्रचुरगुण इति, एवं बुद्धिः स्याद्एवचेन्मन्यसे इत्यर्थः, तथाहि -किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायः, तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुध्यन्ते इति स्वपरानुग्रहः सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यर्थस्यासारताख्यापनायाह - " अनिउन मइवयणम् " इति, अनिपुणमतेर्वचनमिति । द्रव्यस्तवो बहुगुण इति किमित्यत आह- “ छज्जीवकायसंजमुदव्वथए सो विरुज्झई कसिणो । जे कसिणसंजमविउ पुप्फाईअं ण इच्छंति " ॥ व्याख्या - " छज्जीवकायसंजम " इति पष्णां जीवनिकायानां पृथिव्यादिलक्षणानां संघट्टनादिपरित्यागः षड्जीवनिकायसंयमः असौहि तं यदिनामैवं ततः किमित्यत आह- द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स षड्जीवनिकायसंयमः किं विरुध्यते न सम्यक् संपद्यते कृत्स्नः संपूर्ण इति, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्नसं- ३ ॥ १६३ ॥
स्वोपज्ञ वृतिः
श्लो. ६०