________________
स्वोपड
वृत्तिः
प्रतिमा बंधो मुहुमोवि देसिओ समए " इत्यागमात् ; अपश्चितं चेदं धर्मपरीक्षायां महता ग्रन्थेन ॥ ५९॥ पतकम् ॥ एवं व्यवस्थिते कूपनिदर्शनचिन्त्यतामाविर्भावयति॥१६
पूजायां खल्लु भावकारणतया हिंसा न बन्धावहा गौणीत्थं व्यवहारपद्धतिरियं हिंसा वृथा निश्चये । भावः केवलमेक एव फलदो बन्धो विरत्यंशजस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कापदं
कस्यचित् ॥ ६॥ व्याख्या-'पूजायाम् ' इति-पूजायां खल्विति निश्चये भावस्य द्रव्यस्तवकारणाध्यवसायरूपस्य कारणतया हिंसा बन्धावहा न भवति, एषा पद्धतिर्हि स्नानादिसामग्री द्रव्यस्तवेऽधिकारिणं, न च स हिंसाकर्मणा बध्यते, दुर्गतनार्या देवलोकगमनानुपपत्तेः बन्धावहा चेत् , पुण्यवन्धावहैव, उक्तभावेन प्रशस्तीकरणात् , प्रशस्तरागवत् । पुष्पादिसङ्घटनादिरूपोऽसंयमस्वत्र हेतुरुक्त इति चेत्, सोऽपि पर्युदासेन संयमयोगविरुद्धयोगरूप एव स्यात् , तस्यापि च भावेन प्रशस्तीकरणे किं हीयते ? उत्तरकालिक एव भावोऽप्रशस्तं प्रशस्तीकर्तुं समर्थो न पौर्वकालिक इति चेत् , न, दुर्गतनारीदृष्टान्तेन विहितोत्तरत्वात् , कश्चायं मन्त्रो यः पूर्वापरभावेन न्यूनाधिकभावं नियमयतीति । एवं सूक्ष्मेक्षिकायां प्रशस्तहिंसा पुण्यावहापि न स्यादिति चेत्, इद मित्यमेवेत्याह-इत्थमियं व्यवहारपद्धतिः व्यवहारनयसरणिौणी प्रशस्तहिंसायाः पुण्यवन्धहेतुत्वस्यापि, 'घृतं दहति' इति न्यायेनैवेष्टत्वात, निश्चये निश्चयनये तु विचार्यमाणे हिंसा वृथैव, अन्यतरबन्धस्याप्यहेतुत्वात, केवलं एक एव भावः फलदः
Mwwwwww
।
SIN२६॥