________________
wwwww
स्वोपज्ञ
प्रतिमा
| तस्यात्रानधिकारिता वयमपि ब्रूमो वरं दूरतः पङ्कास्पर्शनमेव तत्कृतमलप्रक्षालनापेक्षया ॥ ५८॥ प्रवकम् ___ व्याख्या- य श्रादोपि' इति-यः श्राद्धोऽपि यतिक्रियायां रता कर्त्तव्यत्वेनोत्सुका मतिर्यस्य स तथा, सावद्यसंक्षेप- १६/ वृत्तिः ॥१५९॥
कृत सर्वसावद्यवर्जनार्थ स्थावराणां पृथिव्यादीनां मर्दनाद् भीरुः, प्रकृत्यैव स्वभावेनैव च यतनायुक्तः, तस्यात्र पूजायामनधिकारिता क्यमपि ब्रूमः [ महते गुणाय न भवति ] मलिनारंभस्य नाशनीयस्याभावादनारंभफलस्य च चारित्रेच्छायोगत एवोपपत्तेः, तत्कृतः पङ्कस्पर्शकृतो यो मलस्तस्य प्रक्षालनापेक्षया हि दूरतः पङ्कास्पर्शनमेव वरं, तस्मात्सदारंभेच्छा मलिनारंभश्वेत्युभयमेवाधिकारिविशेषणं श्रद्धेयमित्यर्थः । उक्तं च द्वितीयाष्टकवृत्तौ-गृहिणोऽपि प्रकृत्या पृथिव्यायुपमर्दनभीरोयतनावतः सावद्यसंक्षेपरुचेर्यतिक्रियानुरागिणो न धर्मार्थ सावद्यारंभप्रवृत्तियुक्तेति । इन्तैवं यतिक्रियाभ्यासेन श्रमणोपासकत्वमिदानीन्तनानां कुमतिनामनुमतं स्यात् , न स्यात् , तस्य स्वमतिविकल्पितत्वेनाबहुमतत्वात् , निरपेक्षस्य संयतस्यैव भवितुमुचितत्वात् ; तदाह-"णिरविकस्स उज्जुत्तो, संपुन्नो संजमो चे" ति । द्रव्यस्तवभावस्तवोभयभनष्टस्य च दुर्लभबोधित्वात् । तदुक्तं धर्मदासगणिक्षमाश्रमणैः-" जो पुणणिरचणुच्चिग सरीरसुहकजमित्ततल्लिच्छो तस्स ण य बोहिलाभो, ण मुग्गड़ व परलोगो" त्ति ॥ कस्तहि सावद्यसंक्षेपाच्छ्रादः प्राचीनरत्रानधिकार्युक्त ? इति चेत्, सचिसारंभादिवर्जनपरोपरितनप्रतिमापतिपयनन्तरं यावज्जीवं तथाभिग्रहपरः। “ एवं विय जे चित्तो सावगधम्मो बहुप्पगारो," इत्यादिवचनादित्येवहिइच्छया तु धर्मसंकरे क्रियमाणे न किश्चित्फलामित्युक्तमेव ।। ५८ ॥
॥१५९॥ सिंहावलोकितेन हिंसांशमतिमेव द्रव्यस्तवे निरस्यति
wwwwwwwwwws Samwwwwww
-~-www-marwwwwwwwwwwwws