SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ॥१५८।। धर्मार्थ यर्जनं वित्तोपार्जनं उपेत्यापि अङ्गीकृत्यापि हि निश्चितं कुर्वन् शुद्धालंबने यः पक्षपातस्तत्र निरत इति हेतोर्गुणनिधिः गुणनिधानमिष्यते । सङ्काशश्रावको हि प्रमादाद्भक्षितचैत्यद्रव्यो निब लाभान्तरायादिक्लिष्टकर्मा, चिरं पर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्ध मनुष्य भावो दुर्गतनरशिरः शेखररूपः पारगत सभी पोपलब्धस्वकीय पूर्व भववृत्तान्तः, पारगतोपदेशतो दुर्गतत्वादिनिबन्धनकर्मक्षपणाय यदहमुपार्जयिष्यामि द्रव्यं तद् ग्रासाच्छादनवर्ज सर्व जिनायतनादिषु नियोक्ष्ये, इत्यभिग्रहवान् तथा प्रवर्त्तते स्म, कालेन च निर्वाणमवाप्तवानिति । अथैतदित्थं संकाशस्यैव युक्तं तथैव तत्कर्मक्षयोपपत्तेर्न पुनरन्यस्येत्यादिग्रहणमफलमन्यथा शुद्धागमैर्यथालाभमित्याद्यभिधानानुपपत्तेरिति चेन्न, व्युत्पन्ना व्युत्पन्नाशयविशेषभेदेनान्यस्याप्यादिना ग्रहणौचित्यात्, अन्यथा - " सुच्चइ दुग्गइनारी " इत्यादिवचनव्याघातापत्तेः, नहि तया यथालाभं न्यायोपात्तवित्तेन वा तानि गृहीतानि, तथा चैत्यसंबन्धितया ग्रामादिप्रतिपादनानुपपत्तेश्च । दृश्यते च तत्प्रतिपादनं कल्पभाष्यादौ" चोएइ चेइयाणं, रूप्पसुवष्णाइगामगावाई | लग्गंतस्स हु मुणिणो, तिगरणमुद्धी करंणु भवे ॥ भण्णइ एत्थ विभासा जो एयाई सयं विमग्गिज्जा । नहु तस्स हुज्ज सुद्धी, अह कोइ हरेज्ज एयाई ॥ सव्वत्थामेण तर्हि संघेणं होइ लग्गियन्वं तु । सचरिचचरि तीर्ण, एयं सव्वेसिं कज्जं तु । ” शुद्धागमैर्यथालाभमित्यादि तु न स्वयं पुष्पत्रोटननिषेधनपरं, किन्तु पूजाकालोपस्थिते माळिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्यस्यार्थस्य ख्यापनपरमित्यदोष इति ।। ५७ ।। " नन्वेवं मलिनारंभो नाधिकारिविशेषणं किन्तु सदारंभेच्छैवेति यतेरप्यधिकार स्यादत आह यः श्राद्धोऽपि यतिक्रियारतमतिः सावद्यसंक्षेपकृत् भीरुः स्थावरमर्दनाच्च यतनायुक्तः प्रकृत्यैव च । स्वोपज्ञ वृतिः श्लो. ५७ ॥ १५८ ॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy