SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोप प्रतिमा शतकम् १५७ त्तिः श्लो.५६ एव श्रमणमधिकृत्याप्युक्तं-" संवरनिर्जररूपो बहुपकारस्तपोविधिः सूत्रे । रोगचिकित्साविधिरिव कस्यापि कथश्चिदुपकारी" इति ॥ ५६॥ आरंभशङ्कायामत्र दोषानाहअन्यारंभवतो जिनार्चनविधावारंभशङ्काभृतो मोहः शासननिन्दनं च विलयो बोधेश्च . दोषाः स्मृताः। सङ्काशादिवदिप्यते गुणनिधिर्धर्मार्थमृद्ध्यर्जनम् शुखालंबनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि ॥५७॥ व्याख्या-'अन्यारंभवत' इति-अन्यारंभो मिनहातिरिक्तारंभस्तद्वतो जिनार्चनविधौ विहितजिनपूजायां आरंभशङ्का विभीत्यारंभशङ्काभृत्तस्य मोहोऽनाभोगः स्वेष्टार्थभ्रंशात् , शासननिन्दनंच-कीदृश एतेषां शासने धर्मो ये खेष्टदेवतमपि शङ्कितकलुपिता नाराधयन्तीति, ततो वोधेविलयश्च, अनुचितमवृत्या शासनमालिन्यापादनस्य तत्फलत्वात् । आह च-" यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । बध्नाति स तु मिथ्यात्वं महानर्थनिबन्धनम् " इति । एते दोषाः स्मृताः। नन्वेवमन्यारंभात्तः पूजार्थमारंभे प्रवर्ततामित्यागतं । तथा च-" धर्मार्थ यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनादिपङ्कस्य दूरादस्पर्शनं वरम् " ।। इत्यनेन विरोध इति चेत् , सर्वविरतापेक्षयास्य श्लोकस्याधीतत्वेनाविरोधात् । गृहस्थापेक्षया तु सावधप्रवृत्ति विशेपस्य कूपदृष्टान्तत्वेनानुज्ञातत्वान्न केवलं तस्य यूजाङ्गीभूतपुष्पावचयाप्यारंभे प्रवृत्तिरिष्टा, अपि तु वाणिज्यादिसावधप्रवृत्तिरपि । काचित्कस्यचिद्विषयविशेषपक्षपातरूपत्वेन पापक्षयगुणत्रीजलाभहेतुत्वाचदिदमाह-सङ्काशादिवत् , सङ्काशश्रावकादिरिव १५७
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy