SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रतिमा णीय इति भावः । अवदाम च ज्ञानसारप्रकरणे - ' वेदोक्तत्वान्मनः शुद्ध्या कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः श्येनयागं शतकम्. त्यजन्ति किम् ' इति । तथान्यतो गायत्रीजपादेः तत्संभवात्, सत्वशुद्धिसंभवान्नेयं स्थितिरित्यपि बोध्यं । अस्माकं त्वनन्यगत्या॥१५६॥६ ssयव्ययतुलनयापवादाश्रयणे सत्वशुद्धेन संभवः ।। ५५ अनन्यगतिकत्वे पूजादावन्यथासिद्धिं शङ्कते— नन्वेवं किमु पूजयापि भवतां सिद्ध्यत्यवद्योज्झिताद्भावापद्विनिवारणोचितगुणः सामायिकादेरपि । सत्यं योऽधिकरोति दर्शनगुणोल्हासाय वित्तव्यये तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् ॥ ५६ ॥ व्याख्या - 1 नन्वेवम् ' इति - ननु एवं सत्वशुद्धेरन्यतः संभवे भवतां स्वरूपतः सावद्यया पूजयापि किं ?, जिनविरह मयुक्त भावापद्विनिवारणे जिन उचितो गुणः अवयोज्झितात् पापरहितात् सामायिकादेरपि सिद्ध्यति, तस्य पारमार्थिकविनयरूपत्वात्, आहच “ पुष्पामिषस्तुतिप्रतिपत्तीनां यथोत्तरं प्रामाण्यम् ” इति । उत्तरमाह - 'सत्यम्' इति, सत्यमित्यर्द्धाङ्गीकारे, यो दर्शन गुणोल्लासाय सम्यक्त्वगुणदृद्ध्यर्थं वित्तव्यये क्षेत्रे धनवापायाधिकरोति अधिकार भाग् भवति तस्येयं पूजा महते गु णाय भवति, अधिकारिविशेषण कारणविशेषात् फलविशेषस्य न्याय्यत्वाद्भूम्ना तत्प्रवृत्तेश्चात एव द्रव्यस्तवः श्राद्धानां हस्ति शरीरतुल्यो, भावस्तवश्च तेषां किश्चित्कालीन सामायिका दिरूपस्तदक्षितुल्य इति तत्र तत्र स्थितं । तुल्यफलत्वेऽप्याह - हेत्वंतरात्, हेतुर्विफलो न, तथाच, दानादीनां सामायिकादीनां देवपूजायाथ श्राद्धोचितफले तृणारणिमणिन्यायेन कारणत्वान्न दोषोऽत स्वोपज्ञ वृत्तिः श्लो. ५५ -५६ ॥१५६॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy