________________
| वृत्तिः
wwwwanmanwar
है। मणकारणम्" इति । तस्मात् धर्मार्था हिंसा यागादावेव न तु जिनपूजायामिति श्रद्धेयं ॥ ५४ ।। प्रतिमा ननु भवतामपि सामान्यतो निषिद्भाया हिंसायाः फलं कथं न पूजास्थलीयाहिंसायाम् ?, अत आह
है स्वोपन पतकम्। ॥१५५|| अस्माकं त्वपवादमाकलयतां दोषोऽपि दोषान्तरोच्छेदी तुच्छफलेच्छया विरहितश्चोत्सर्गरक्षाकृते। श्लो.५५ यागादावपि सत्त्वशुद्धिफलतो नेयं स्थितिर्दुष्टतः श्येनादेरिव सत्वशुद्ध्यनुदयात्तत्संभ
वादन्यतः॥ ५५॥ व्याख्या-'अस्माकम् ' इति, अस्माकं त्वपवादमाकलयतामुत्सगैकाधिकारिकमपवादं निम्नोत्रतन्यायन तुल्यसङ्ख्याकमभ्युपगच्छतामित्यर्थः, दोषोऽपि द्रव्यस्तवेऽधिकारिविशेषणीभूतो मलिनारंभस्तत्कालीनः सदारंभो वा दोषान्तरस्यानुबन्धहिंसारूपस्योच्छेदी तुच्छफलस्य भूत्यादिलक्षणस्येच्छया विरहितश्चोत्सर्गरक्षाकृत एवोत्सर्गरक्षार्थमेव प्रवर्त्तत इत्यविरोधः, परेषां तु सामान्यनिषेधउत्सर्गो मुमुक्षोरपवादश्च यागीयहिंसाविधिलक्षणो भूतिकामस्येति भिन्नविषयत्वादुत्सगापवादभावानुपपत्तिरेव । तदुक्तं हेमसूरिभिः-"नोत्सृष्टमन्यार्थमपोद्यते च'इति । ननु यागादौ प्रतिपदोक्तफलकामनया माभूदेवमुत्सर्गापवादभावः, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इत्यादिश्रुतेः, प्रतिपदोक्तफलत्यागेन शतपथविहितकर्मवृन्दस्य विविदिषायां सत्वशुद्धिद्वारा संभविसमुच्चयेनोपयोगो भविष्यतीत्यत आह,-यागादावपीति यागादावपि सत्वशुद्धिफलमाश्रित्य नेयमस्मदुक्तजातीया स्थितिर्मयादा, कुतः ? दुष्टतः स्वरूपतो दुष्टात् श्येनादेरिव श्येनयागादेरिव, सत्वशुद्ध्यनुदयान्मनःशुद्धः कर्तुमशक्यत्वात् । ये हि प्रतिपदोकफलत्यागेन वेदोक्तमिति कृत्वा ज्योतिष्टोमादि सत्वशुद्ध्यर्यमाद्रियन्ते, तैः श्येनयागोऽप्यभिचारफलत्यागेन सत्वशुद्ध्यर्थमादर-"
॥१५५॥