________________
प्रतिमा शतकम्. ॥१५१॥
विंशिकायां एतदेवाभिप्रेत्याह - तपस्विनि प्रधानतपोयुक्त मुनौ चारित्रिणि एषा भक्तिः प्राधान्यमश्नुते प्रधानभावं प्राप्नोति । अत्र दृष्टान्तमाह-यथा शैशवे वाल्ये धीर्बुद्धिः लीलाया प्रधानीभूतायाः क्रीडाया अङ्गतया उपसर्जनविधां गौणभावं धत्ते, तारुण्ये च यौवनकाले च सा बुद्धिः व्यवसायसंभृततया बलपराक्रमसध्रीचीनतया मुख्यतां मुख्यभावमञ्चति प्राप्नोति ॥ ५१ ॥ अत्र सूत्रनीत्या हिंसामाशङ्कन्योद्वेगमभिनयति परः
अर्थं काममपेक्ष्य धर्ममथवा निघ्नन्ति ये प्राणिनः प्रश्नव्याकरणे हि मन्दमतयस्ते दर्शि
स्वोपज्ञ वृत्तिः
श्लो. ५१
-५२
तास्तत्कथम् ।
पुष्पांभोदहनादिजीववधतो निष्पाद्यमानां सुरैः पूजां धर्मतया प्रसह्य वदतां जिह्वा न नः कंपताम् ॥ ५२ ॥
व्याख्या -' अर्थम् ' इति -अर्थं काममथवा धर्ममपेक्ष्य ये प्राणिनो घ्नन्ति ते प्रश्नव्याकरणे हि निश्चितं मन्दमतयो दर्शिताः तत्तस्मात् पुष्पांभोदहनादिजीवानां यो वधस्ततो जनैर्लो करतत्वज्ञैरित्यर्थः, निष्पाद्यमानां कार्यमाणां पूजां प्रसह्य हठाद्धर्मत्वेन वदतां नः अस्माकं जिह्वा कथं न कंपतां ? अपि तु कंपतां धर्मिणां जिहैव मृषा भाषितुं कंपत इत्युक्तिः ।। ५२ ।।
अत्रोत्तरदातुः स्वस्य वैद्यताभिनयाभिव्यक्तये भेषजमुपदर्शयति
भोः! पापा! भवतां भविष्यति जगद्वैद्योक्तिशङ्काभृतां किं मिथ्यात्वमरुत्प्रकंपवशतः सर्वाङ्गकंपोऽपि न । । १५१ ।।