________________
पनि NI २५
wwwwwwe
वृत्तिः
गुणस्थानके दर्शनलक्षणे सम्यक्त्वलक्षणीभूते वैयावृत्ये विदिते-“ सुस्सूसधम्मराओ गुरुदेवाणं जहा समाहीए । यावच्चे
स्वोपन णियमो वयपडिवत्तिअभयणाओ", इत्यादिना प्रसिद्धेऽनन्तानुबन्धिनां व्ययात् क्षयोपशमान कामपि हानि प्रेक्षामहे । कुत्र कामिव ? त्वयि निर्मलां निःशङ्कितां धियमिव, यथा त्वयि निर्मलां धियं न प्रेक्षामहे तथास्मदुक्तार्थे न हानि प्रेक्षामहे इत्युपमा। लो.५० चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्य वैयावृत्त्यगुणस्याविरतसम्यग्दृशामपि संभवे बाघकाभावादित्यर्थः ॥५०||
तथासति तेषां चारित्रलेशसंभवेऽविरतत्वानुपपत्तिरेव बाधिकेत्यत्राहश्राद्धानां तपसः परं गुणतया सम्यक्त्वमुख्यत्वतः सम्यक्त्वाङ्गमियं तपस्विनिमुनी प्राधान्यमेषानुते। धी लागतयोपसर्जनविधां धत्ते यथा शैशवे तारुण्ये व्यवसायसंभृततया सा
मुख्यतामञ्चति ॥ ५१ ॥ व्याख्या-'श्राद्धानाम् इति, श्राद्धानां दर्शनश्रावकाणां परं केवलं तपसो गुणतया अमुख्यतया इयं भक्तिः सम्यक्त्वाङ्गं सम्यक्त्वस्य प्रधानस्याङ्गीभूतासम्यक्त्वफलेनैव फलवतीत्यर्थः । 'फलवत्सन्निधावफलं तदङ्गम्' इति न्यायात् , तथा च तावता न अविरतत्वहानिः, 'न हि कार्षापणमात्रधनेन धनवान् एकगोमात्रेण गोमान् ' इति पश्चाशकवृत्तावभयदेवसूरयः। कषायविशेषव्ययएवाविरतत्वहानिप्रयोजको नतु प्रथमानुदयमात्र तेनापेक्षिकोपशमादीनां सम्यक्त्वगुणानामेव जनकत्वादिति निष्कर्षः । आह च“पढमाणुदयाभावो एअस्सजओ भवे कसायाणां । ता कहएसो एवं भन्नइ तबिसयवेक्खाए"त्ति प्रधानीभूतास्तूपशमादयोऽपि चारित्रिण एव घटन्ते, तदाह-"णिच्छय सम्मत्तं वाहिकिच्च सुत्तभणियनिउणरूवं तु । एवंविहो णिओगो, होइइ मोहं तवन्नु"त्ति ।
६॥१५॥