SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ननु चैत्यानि जनप्रतिमा इत्यत्र वृत्तिकृतोक्तं परं विचार्यमाणं न युक्तं, अशनादिसंपादनस्यैव वैयावृत्यस्योक्तत्वेन प्रतिमासु तदर्थस्यायोग्यत्वात्, अत आह एतद्वैयावृत्यं अशनादिनैवाशनादिसंपादनेनैव स्यादिति न, किन्तु भजनाद्वारापि भक्तिद्वारे॥ १४८ ॥ णापि, प्रत्यनीकनिवारणरूपे भक्तिव्यापारेऽपि, – “जरका हु वेयावडिअ करेंति तम्हा उ एए निहया कुमारा" इत्यादौ वैयानृत्यशब्दप्रयोगस्य सूत्रे दर्शनात्, नचादिपदग्राह्यं पानादिकमेव किन्तु भक्त्यादिकमपि अतएव तपस्व्यादीनां तपोयोगप्रभृतिकालेऽशनादिसंपादनस्यायोगाद्भक्त्याद्युचितनित्यव्यापारसंपादनसंभवाभिप्रायेण योगविभागात्समासः । बालादीनां शैक्षसाधर्मिकयो कथञ्चित्तुल्यतयेति भावनीयं । एतदेवाह - अन्यथोक्तवैपरीत्ये सङ्घादेस्तदुदीरणे वैयावृत्योच्चारे परः कुमती कथं न व्याकुलो व्यग्रः स्यात्, कुलगणसङ्घानां सर्वेण सर्वदा सामग्र्येणाशनादिसंपादनस्य कर्त्तुमशक्यत्वात् यावद्वाधं प्रामाण्यं तूभयत्र वक्तुं शक्यमिति दिक् ॥ ४८ ॥ अर्थान्तरवादमधिकृत्याह - ज्ञानं चैत्यपदार्थमत्र वदतः प्रत्यक्षवाधैकतो धर्मिद्वारतयामुनावधिकृते त्वाधिक्यधीरन्यतो । दोषायेति परः परः शतगुणप्रच्छादनात्पातकी दग्धां गच्छतु पृष्ठतश्च पुरतः कां कांदि शीको दिशम् ॥ ४९ ॥ व्याख्या - ' ज्ञानम् ' इति अत्र प्रश्नव्याकरणप्रतीके चैत्यपदार्थ ज्ञानं वदतो लुंपकस्यैकत एकस्मिन् पक्षे प्रत्यक्षबाधा प्रत्यक्षप्रमाणबाधः परिदृष्टः विश्रामणादिवैयाहृत्यस्य ज्ञानेऽनुपपत्तेः, धर्मिद्वारतया धर्मिणि धर्मोपचाराभिप्रायेण मुनौ साधौ स्वोपज्ञ दृतिः श्लो. ४८ -४९ ।।१४८ ॥ d
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy