________________
प्रतिमा शतकम् ॥१४७
Awwamiwwwmmmmmmmmmmm
Marwanam
व्याख्या-'वैयावृत्यतया 'इति, वा अथवा सममापि सर्वापि भगवतां भक्तिः कृतकारितानुमतिरूपा स्वस्वाधिकारौचित्येन तपएव, तथा च तपःपदेन यात्रायाः साक्षादुपदेश एव इति भावः ! वैयावृश्यत्वमस्याः कुतः सिद्धमत आह हि निश्चितं
स्वोपड़
। दशमेऽङ्गे प्रश्नव्याकरणारव्ये स्फुटं प्रकटं चैत्याथै वैयावृत्त्यमुदाहृतं; तथा च तत्पाठ:-"अह केरिसए पुणाइआराहए वयमिणं लो.४८ जेसे उवहिभत्तपाणदाणसंगहणकुसले अच्चंतबालदुब्बलगिलाणवुठ्ठखवगपवत्तिआयरियउवज्झाए सेहे साहम्मिए तवस्सिकुलगणसंघचेइयढे णिज्जरठी वेआवच्चं अणिस्सियं दसविहं बहुविहं पकरे"त्ति, 'अहकरिसए'त्ति अथ परिप्रश्नार्थ, कीदृशः पुनः 'आइत्ति' अलङ्कारे आराधयति व्रतमिदं । इह प्रश्न उत्तरमाह-जेसे' इत्यादि, योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो विधिज्ञो यः स तथा, तथा बालश्च दुर्बलश्चेत्यादेः समाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धापकं तत्तथा, तत्र विषये वैयावृत्यं करोतीति योगः । तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्दैकत्वात्प्रवृत्यादिषु, तत्र प्रवृत्ति लक्षणमिदं-"तवसंजमजोगेसु जो जोगो तत्थ तं पवत्तेइ । असहुं च णियतेई गणतत्तिल्लोपवित्तीओ" ॥ इतरौ प्रतीतो, तथा 'सेहे' शैक्षेऽभिनवपत्रजिते, साधर्मिके समानधर्मके लिङ्गप्रवचनाभ्यां, तपस्विनि चतुर्थभक्तादिकारिणि, तथा कुलं एकाचार्यपरिवाररूपं चान्द्रादिकं, गणः कुलसमुदायः कौटिकादिकः, सङ्घः तत्समुदायरूपः, चैत्यानि जिनपतिमाः, एतासां योऽर्थ प्रयोजनं स तथा, तत्र निर्जरायीं कर्मक्षयकामः वैयावृत्यं व्यापृतकर्मरूपमुपष्टंभनमित्यर्थः, अनिश्रितं कीादिनिरपेक्षं, दशविध दशमकारम् ; आह-" वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अन्नाइआणविहिणा संपायणमेसभावत्यो । आयरिअ उवज्ज्ञाए थेरतवस्सी गिलाणसेहाणं । साहम्मियकुलगणसंघसंगयंतमिह कायव्वं ॥” बहुविधं भक्तपानादिदानभेदेनानेकप्रकारं करोतीति वृत्तिः। ॥१४७॥
wwwranANWwwwww